SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३२० मुखीकरणादिना संयुतं, सुन्दरवितानाद्यलङ्कारसहितं घातातपप्रकाशादिप्रवेशयोग्यमुपवेशनाईं स्थलं शिल्पी युक्त्या कल्पयेदित्युपदेशः ॥ अपि चैवं निर्मितिकरणे पूर्वोक्तसाधारणसभायां विंशतिस्तम्भस्थापनं, मुख्यसभायां चतुर्विंशतिस्तम्भस्थापनमत्र तु प्रधानन्यायशालायां चत्वारिंशत्स्तम्भस्थापनं सर्वत्रोपशालादिकेषु कल्पनेषु तत्तत्कार्योचितमानादिकं कल्प्यतामिति वचनशैली प्रतिभाति || अर्थान्तर स्फुरति । कथं वा इमामेव राजकीयप्रधानशालां उत्तमपने पूर्वोक्तरीत्या चत्वारिंशत्स्तम्भसहितां, मध्यमपक्षे चतुर्विंशतिस्तम्भस्थापनयुतां अवमपक्षे विंशतिस्तम्भोपेतामिति तत्तत्कार्यतत्तत्स्थलानुकूलं कल्पयेदिति । केचिदेवं कल्पनमपि युज्यत इति वदन्ति । एतत्सर्वमभि शिल्पशैलीविदामनभिप्रेतमित्येव वयम् । तस्मात्प्रथमकक्ष्योक्तमेव प्रमाणं स्तम्भविषयकं समादिस्थानत्रयकल्पनेषु संयोजनीयमिति शिल्पिवर्गस्योपदेश: ॥ तस्मादव चत्वारिंशत्स्तम्भस्थापनक्रमो यथा दैर्घ्यप्रमाणयुतकल्पने सव्यभागपङ्क्तिद्वये सममानसूत्रं स्तम्भषोडशकं तथैवापसव्यभागे पङ्किद्वयेऽपि स्तम्भषोडशकं च स्थापयित्वा सिह्मासनवेदिकास्थाने आवरणद्वये स्तम्भाष्टकं पूर्वद्वारभागे सोपानसमीपे स्तम्भचतुष्कञ्च स्थापयेदिति क्रमः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy