SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सार्वभौमादिभ्रपानां गुणिनां नयचक्षुषाम् । आस्थानिकं द्विधा प्रोक्तं न्यायशालासभाक्रमात् || न्यायशालास्थानिकन्तु प्रत्यक्षं राजपूजितम् । धर्मस्थापनकार्येषु साक्षीभूतमहेश्वरा ॥ २ ॥ सभा व्रतदिनास्थानं महिष्यादिभिरचिता । प्रासादे भवने हर्म्ये परिवारावृताङ्गगे || ३ || ॥ पोडशोऽध्यायः ॥ अथ न्यायशालालचणकथनात्मकं षोडशाध्यायमुपक्रमतेसार्वभौमादिभूपानामिति । पक्षपातरहित्यकामक्रोधादिराहित्ययथोचितदण्डदयालुत्वादिसद्गुणशालिनां बहुविधन्यायशास्त्रज्ञानां सार्वभौमानां सत्क्षत्रियवंश्यानां भूपालानां च निवेशस्थलन्तु न्यायशाला सभाभेदेन द्विविधमुक्तं पुराणेषु शिल्पः । अस्य विशदार्थस्तु प्रत्यहं भूपालादिभिर्जगतां श्रेयसे वन्दितं स्थलं न्यायशालाभिधं भवति । सभा तु महिषीपुरोहितकुलगुरुसमेतस्य भूपालस्य जन्मनक्षत्रादिव सन्तोत्सव दिनादि समयेषु विविधेध्वनुष्ठेयानेक व्रतकरणोचितं स्थलं सभाभिधानमिति क्रमार्थो बोध्यः ॥ अथ न्यायशालालक्षणनिरूपणं नाम षोडशोऽध्यायः ॥ - S. 8. 38
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy