SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २४३ आहोस्विदुभयोः पक्षयोईढभित्तियुतं कूटकोष्ठादियुतपक्षभित्त्यादिमिलितं तत्र तत्र युक्त्या वार्थलोपेतं च कृतं यदि तत्कल्पनं नाना हर्म्यमित्युच्यत इति ॥ इत्थंप्रकारेण पूर्वोक्तरीत्या वैशाल्यायामादियुतां महती मध्यशाला निर्मापयित्वा पश्चाद्भागयोरथवा पुरोभागे भागत्रय वा पश्चाद्भागं विनाऽऽहोस्विद्भागचतुष्केऽपि वा तादृशमध्यशाला. प्रमाणादर्धमानेनोपेतां वा तदर्धमानेनोपेतां वा स्तम्भचतुष्कादिलसितामुपशालाख्यां शालाश्च स्थापयित्वा तत्र तत्र प्रतिभागं द्वारेणैकेन लसितमथवा द्वारद्वयोपेतं द्वारचतुष्कोपेतं वा तादृशशालानां संमेलनस्थलं सपार्श्वभित्तिकल्पनं वा कृत्वा मध्ये मध्ये मेघजलातपादिपतनयोग्यचत्वरयुतं खण्डहर्म्यश्च पूर्वोक्तवास्तुभागस्थले यदि कल्पितं तत्कल्पनं नृपादिमहापुरुषवासयोग्य प्रासादकल्पननामभाग्भवतीति ॥ किश्चात्र प्रासादनिर्माणे तादृशचत्वरादिवार्थलं तु भूपदण्डचतुष्कायतिकं द्वादशदण्डदैर्ध्यवत् एकादिपञ्चदशदण्डान्तप्रमाणश्च कल्पयेत् । किश्च तादृशकल्पनानुगुणमेवोपरितनद्वितीयतृतीयादि. भौमस्थापनरचनायुतब्च स्थापयेत् । किञ्चात्र प्रासादकल्पने ईशानादिचतुर्दिकोणेषु मध्यनिर्माणसहितं वा पृथग्वा क्षुद्रशालाचतुष्कं कार्यम् । किमर्थम् ? तत्रैव खलु आगन्तुकसुहृदादि. विचारणास्थलं वस्त्रभूषणादिनिक्षेपणस्थानं, कन्दुकादिक्रीडा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy