SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २४१ कीलसहितैश्व परस्परस्तम्भ निर्माणो परितन सम्मेलनात्मकं मुखीकरणं युक्त्या दृढं शिल्पी कल्पयेदित्यर्थः । एवमेतादृशमुखीकरणे एकमुखादि बहुविधं तत्रावधार्यम् । तादृशमुखीकरणोपरितले निर्माणपटलात्मकं क्रमशो दायान्वितं विरचय्य तदुपरि एकादिसौधत निर्माणं कार्यमित्यादिक्रमस्तु अस्मत्कृत शिल्पकलादीपिकाव्याख्यायां विस्तरशः प्रतिपादितः । तश्च्च तत्रैव द्रष्टव्यमिति ॥ किञ्चैतावता प्रबन्धेन भवनाख्यस्य सदनोत्तमस्य मध्यनिर्माणस्थलन्तु भूपदण्डपञ्चकवैशाल्यवद्वा भूपदण्डप ट्रकवैशाल्यवद्वाऽथवा तदधिकेन द्वादशदण्डावधिकप्रमाणेन युतं वा यथाविभवं यथारुचि स्थापयित्वा चतुरश्रस्वरूपस्य तादृशमध्यनिर्माणस्थलस्य प्राच्यादिषु चतसृषु दिक्षु द्वारस्थापनं कार्यम् । अथवा प्राच्यां वारुण्याञ्च दिशि द्वारस्थापनमिति । आहोस्विद्वारुणीं दिशां विना दिक्स्थानत्रयेऽपीत्येवं तत्र द्वारस्थापनक्रमो ज्ञेयः : 11 . किवं तत्र द्वारस्थापनरीत्या तादृशद्वार भित्तिमिलितामेकादिदण्डत्रयविपुलां तालबाराख्यामुपशालां ( तालबारा srjarro) पूर्वोक्तमध्यनिर्माणस्थलं परितः परीतां स्थापयेत् । किश्च तादृशमध्यनिर्माणस्थले कोणेषु चतुर्षु कश्चिन्मध्ये वा क्षुद्र गृहं ( /mmp) निर्माय तादृशक्षुद्र गेहेषु शयनभोजनासनादि வார 8. s. 31
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy