SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अथ नृपप्रासादभूमानलक्षणकथनं नाम द्वादशोऽध्यायः ॥ शुभदा चतुरश्रा भूर्भूमिपानां विशेषतः । पुरस्य मध्यभागे वा निर्दिष्टे वा स्थलोत्तमे ॥ १ ॥ भूप प्रकर्तव्यं तल्लक्षणमनोहरम् । गभीरपरिखोपेतं द्वारोपद्वारशोभितम् || २ || चूली हर्म्य समायुक्तं पक्षिशालाभिरन्वितम् । ॥ द्वादशोऽध्यायः ॥ अथ नृपप्रासादप्रमाणकथनात्मकं द्वादशाध्यायमारभते शुभदेत्यादिना । तत्र नानाविधनगरेषु चतुरश्रा वास्तुभूमिरेव भूपालभवनादिनिर्माणाय स्वीकार्येति मुख्यः पक्षः । सैव विजयादिसंपत्प्रदा चेति भावः । क्वचिदत्यन्तायतभूमिर्वा देयन्त्रिता भूरपि न दोषायेति भावः । स तु मध्यमः पक्ष इति || I - किश्च पुरमध्यभागस्थितां वा पद्मकादिनगरीषु निर्दिष्टभागस्थितां वा भूमिं स्वीकृत्य तत्र राजभवनं गभीरपरिखा संवृतं द्वारोपद्वारयुतं चूलीहर्म्याख्यचन्द्रशालादिबहुशालोपेतं कूटकोष्ठाद्यलङ्कृतनवभौमभासुरं बहुशिखर वातायनादिकल्पनाविशेषैनयनानन्दकरैरुपेतं च कारयेदिति भावः । पूर्वोक्तगभीरपरिखालक्षणं तु अनन्तराध्याये स्पष्टीकरिष्यते । तस्मात्प्राकारस्य 1
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy