SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १७८ कारयेच्छिल्पकार्यहरनेकास्तुङ्गभूस्थिताः ॥ १८६ ।। विद्याशाला वैद्यशाला न्यायशालाश्च भूपतिः । क्रियाशाला रङ्गशालाश्चित्रशालादिकास्तथा ॥ १८७ ॥ कारयेच्च विधानेन शिल्पकार्यविचक्षणैः । भटानामालय श्रेणिराकाशे परिकीर्तिता ॥ १८८ ।। कुलालादिगृहश्रेणिं स्थापयेत्पवने तथा । वाद्यकारादिनिलयान्मित्रभागे प्रकल्पयेत् ।। १८९ ।। वह्निभागे नटादीनामालयान्परिकल्पयेत् । स्थापयेत । एतेषु भागेषु पूर्वोक्तभूधररुद्रभृङ्गराजमीनसोमापविवस्वत्सावित्राख्येषु भागेष्वेवावशिष्टस्थलेषु तुङ्गभूमिस्थाः, बहुविधपण्य जालस्थापनयोग्या विविधविपणिश्रेणीन स्थापये. दित्यर्थः ॥ अपि चात्रैव भागे स्थलान्तरे विद्याशालां, वैद्यशालां, न्यायशालां, क्रियाशालां, तत्तत्कल्पनशिल्पादिशिल्पबोधनशाला, रङ्गशाला, नाटकशालां, चित्रशालामन्याश्च विविधा नगरयोग्याश्च शाला: प्रकल्पयेत् । किञ्च राजभटानां योधादीनामालयश्रेणीराकाशभागे स्थापयेत् । कुलालाम्वष्ठरजकलेख. वाहकादीनां पुरकार्यकराणां निलयान पवनभागे स्थापयेत् । तथा पायकारादीनामालयश्रेणि मित्रभागे प्रकल्पयेत् । वह्निदेवमागे
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy