SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चदशस्य गिरिनगरस्य लक्षणम् ॥ क्वचिद्भूपतिना स्थाप्यं नगरं गिरिमूर्धनि । दुष्प्रापमरिसेनाभिस्तदाहुर्गिरिपत्तनम् ॥ १४२ ।। गिरेस्तु क्षुद्रकायस्य परितः परिखा मता। किश्चात्र नगरस्यैकमुग्वकल्पनप्रसङ्गेऽपि . प्रतिप्राकार चतसृष्वपि दिक्षु गमनागमनयोग्यं महाद्वारचतुष्कं स्थापयेदिति भावः । अयञ्च क्रमस्सर्वत्र वीथीनाम । अन्यथा प्रजादीनां गमनागमनश्रमादि जायतेति मतिः। एतादृशलक्षणान्वित पुटभेदननगरं सर्वर्तुसुखकरतटाकादिविविधनिर्माणलसितमित्याहुशिल्पशास्त्रज्ञाः इति ॥ १४१ ॥ अथ पञ्चदशस्य गिरिनगरस्य लक्षणमाह --- कचिदिति । सार्वभौमेन वा तदाज्ञाकारिणा भूपालादिना वा कचिद्देशेषु शत्रुसेनाभिरप्रधय गिरिमूर्धनि वा गिरिमध्यभागे वा नगरं स्थापयितुमपि शक्यम् । तादृशनगरस्य 'गिरिनगरम्' इति नाम विदुः॥ किश्च यदि तावत्तादृशनगरस्थापनायाधारभूतः पर्वतः क्षुद्रकायो नातिविशालो दण्डमेयप्रमाणको लब्धस्तदा तादृशपर्वतस्य सानुभाग एवागाधां परिखां कारयेत् ॥ यदि तादृशाधारपर्वतः पृथुलदेहो बहुसानुतटो दण्डायैB...21
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy