SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १४६ तेषां गृहाणि स्थाप्यानि प्राच्यां शिल्पविशारदैः || दक्षिणस्यां निषद्याश्च वैश्यशूद्रालयांस्तथा । स्थापयेद्वारुणे भागे द्विजातीनां गृहाणि च ॥ १०७ ॥ . तत्रैव क्षत्रबन्धूनां धनिकानां गृहाणि च । कौबेर्यान्तु सभाशालाश्चानेकाः कल्पयेत्सुधीः ॥ १०८ ॥ राजकार्यकराणाञ्च मन्त्रिसेनेशयोरपि । सद्मानि तत्र कार्याणि पुरेऽस्मिन् शिल्पकोविदैः || लोहकाराः तक्षकाः स्थपतयस्तैलविक्रयिणोऽन्ये च यन्त्रक्रियाकारिणस्तेषां सद्नादिकं स्थापयेत ॥ दक्षिणदिग्भागे तु बहुविध पण्यजालसमृद्धविपणी र नेकाः कल्पयेत् । तत्स्थानसमीप एव क्रयविक्रयादिकार्यव्यग्राणां वैश्यानां शूद्रजानामन्येषां भवनादीनि यथास्थलानुकूलस्थापितवीथीभांजि कार्याणीत्यर्थः । वरुणदिग्भागे तु पूर्वोक्तदेवतालयसमीप एव वा तं परितो वा ब्राह्मणानां निलयादीन् क्षत्रियबन्धूनां हर्म्यशालाद स्थापयेत् ॥ " एवमुत्तरदिग्भागे तु राजकीय कार्य कराणामावासादीन्, न्यायशाला दिबहुविधशालाः मन्त्रिणो हर्म्यादिकं, सेनापतेरपि भवनादिकश्च यथाक्रमं स्थापयेत् । एवं भागचतुष्टयारूये उपपुरचकल्पने विहिते पुरस्यास्य मध्यभागे राजभवने चात्युन्नते
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy