SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १४५ तत्पादमानसंयुक्तचतुर्भागविभाजितम् । मध्यस्थराजभवनं दुर्गरक्षकरक्षितम् ।। १०४ ।। प्रत्यग्दग्देवतागारं प्राकारेणाभिरक्षितम् । नाम्नेदं नगरं प्रोक्तं पुरं शिल्पविशारदैः ।। १०५ ॥ तन्तुवायास्स्वर्णकारा लोहकारादयः परे । किश्चैतादृश चतुरश्रभूमिस्थापितस्यास्य पुरस्य दक्षिणायामुदीच्यां च दिशि समसूत्रं मुखद्वारद्वयं साधिष्ठानं कल्पनीयम | तदुपरि गोपुरकल्पनं तु ऐच्छिकमिति भावः । किवतादृशमुखद्वारद्वयमपि तत्तद्दिग्भागे देशान्तरागतमहामार्गेण संमिलितङ्कार्यम् । किन पुरमिदं सममानं चतुर्भागं विभज्य तेषां भागानां मध्ये वास्तुमध्यस्थाने राजभवनं परिखावृतं रक्षकर्यामिकैश्वाभिरक्षितं निर्मापयेत् ॥ एतावता प्रबन्धेन प्रायशो नगराणां, ग्रामाणाञ्च वास्तुभूसीमापर्यन्तं परिखावृतत्वमुपपादितम् । अत्र तु पुरे नगर मध्यस्थापितस्य राजभवनमात्रस्यैव परिबासमावृतत्वमुक्तमिति पूर्वस्माद्वेदो लक्ष्यः ॥ किचात्र समभागं विभाजिते पूर्वोक्तभागचतुष्कस्थले प्रत्यग्दिग्गतभागे प्राकारेणैकेन वा प्राकारत्रयेण वा अभिरक्षितं प्राचीमुखमिन्दिरामन्दिरं विष्णुमन्दिरं वा तदुभयमपि वा स्थापयेत् । अपि च प्राचीदिग्भागेषु तन्तुवायारस्वर्णकाराः 8. S. 19
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy