SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १३६ एवं द्वादशवीथीषु ब्राह्मसद्मानि कारयेत् । सावित्रे वाथवा मीने भागे भूपक्रियालयः ॥ ८५ ॥ आकाशादीशपर्यन्तं वैश्यादीनां गृहान्वयः । तन्मध्ये पण्यवीथीनाञ्चतुष्कं स्थापयेद्बुधः ॥ ८६ ॥ धान्यादिकं दिशि प्राच्यां याम्यां हेमादिकं स्मृतम् । अस्यास्तृतीयावरणवीथीति नामान्तरञ्च भवति । तथाचाहत्य संख्यायां आवरणत्रयस्थानां एतादृशवीथीद्वादशकानां प्राची प्रथमावरणवीथीति दक्षिणा प्रथमावरणत्रीथी, प्रतीची प्रथमावरणवीथी, उदीची प्रथमावरणवीथीति व्यवहार बोध्यः । एवमेव प्राची द्वितीयावरणवीथीत्यादिकमप्यूह्यम । एवमग्रेऽपि बोध्यम् ॥ एतादृशवीथीद्वादशके ब्राह्मणानामेव वसतिस्थलं स्थापनीयम् । न तत्रान्यगृहादीति । अपि चावशिष्टे सावित्रदेवभागे वा मीनदेवभागे राजकीय व्यवहारशालादयः कार्याः । ततः प्रान्तवास्तुभूमौ आकाशभागादीशानदेवभाग पर्यन्तं भागषोडशकं वैश्यशूद्राद्यालयान्वितं स्थापनीयम् । किख तत्र तत्र प्राच्यादिषु चतसृष्वपि दिक्षु निषद्यानां स्थानं कार्यम् । तत्रापि चान्यो नियमः । यथा वा — प्राचीविपण्यां बहुविधधान्याढकमाषमुद्गगोधूमचणकविलादीनां मरीचीप्रमुखसंभारवस्तूनां तैलाज्यदधि 1
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy