SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १३५ प्रतोलीनां शतैर्युक्तमुपवीथीशतेन च । बह्वीभिः क्षुद्रवीथीभिस्संयुतश्च समन्ततः ॥ ८२ ॥ शिवस्य मन्दिरं मध्यभाग एवात्र कल्पयेत् । सप्राकारं सभाशालातटाकाद्यैश्च संयुतम् ॥ ८३ ॥ देवप्राकारमभितो महावीथ्याः प्रकल्पनम् । तदहिश्च महावीथ्य स्तदहिश्च तथा मताः ॥ ८४ ॥ तानि विशालानि प्रतोलीनां शतानि निर्मापणीयानि । तथैव तत्तिर्यग्वीथीनां संख्याशतश्च कृत्वा तत्र तत्रानेकाः क्षुद्रवीथीश्च स्थापयेत् ॥ किञ्च नगरस्यास्य मध्यभाग एव शिवस्य मन्दिरनिर्माणं कार्यमिति च शास्त्रनियमः । तादृशशिवमन्दिरमतिविशालं उत्तुङ्गप्राकारावृतं सभामण्टपतटाकादिसहितं च कल्पयेत् । तादृशंदेवमन्दिरप्राकारमभितो बहिरतिविशालमुभयपक्षगृहान्वितं समचतुस्सूत्रं महावीथीचतुष्कं स्थापयेत् । अस्याः प्रथमावरणवीथीति नामान्तरम । एवमेवैतादृशप्रथमावरणवीथीरभितो बहिरतिविशालं पूर्ववदेव उभयपक्षसदनान्वितं समचतुस्सूत्रं महावीथीचतुष्कं कल्पयेत् । अस्याः द्वितीयावरणवीथीति नामान्तरम् । एवमेवैतादृशद्वितीयावरणवीधीरभितो बहिरतिविशालमुभयपक्षसदनान्वितं समचतुस्सूत्रं महावीथीचतुष्कं च कार्यम् ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy