SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १२१ चतुर्दिक्स्थचतुर्द्वारङ्गोपुरेण समन्वितम् । देशान्तरपथेनापि तद्द्वारं संयुतं भवेत् ।। ४९ ।। नात्रोपवीथीश्शिल्पज्ञः क्षुद्रवीथीश्व कल्पयेत् । समसूत्रा राजवीथीः कल्पयेत्ताश्च सर्वतः ॥ ५० ॥ प्रतीनां पञ्चशतं संख्या चात्र निगद्यते । किन नगरमिदं पूर्ववन्नदीतीर एवं कल्पनीयमिति नियमः । परन्तु केचिन्नदीतीरभागे वा वनमध्यभागे वा सस्यावृतभूमिभागे वा यत्रकुत्र वा शुभलक्षणान्वितस्थले तादृशविशालसम भूप्राप्तिस्तत्रेदं नगरङ्कल्पयेदिति । तथापि सुलभलभ्यस्वादुतोयाम्वितायामेव भूम्यां कल्पनीयमिति सर्वेषामपि नगराणां मुख्यलक्षणश्च बोध्यम् || किन नगरस्यास्यापि पद्मनगरस्येव प्राच्यादिषु चतसृष्वपि दिक्षु देशान्तरगामिना महामार्गेण संयुक्तं सगोपुरं द्वारचतुष्कं समसूत्रभागे कल्पनीयम् | परन्तु नगरभिदं नैयत्येन दुर्गाख्यपरिखया संवृतं कार्यमित्यादिभेद ऊपः ॥ पूर्वस्माद्भेदक लक्षणान्यत्र प्रतिपादयति । यथा नगरेऽस्मिन्नुपवीथीः क्षुद्रवीथीश्व कल्पयेत् । सर्वत्र समन्त उभयपक्षभवनान्विताः प्रतोटीरेव सममान भागस्थले समरज्जु कल्पयेत् । प्रतोलीशब्दार्थः पद्मनगरलक्षणे उक्तः । तादृश 8. 8. 16
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy