SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ૪૮ एकादशस्तु कैलासो द्वादशो नित्यमङ्गलः ॥ ८ ॥ इत्येवं द्वादश ग्रामाः शिल्पशास्त्रे प्रकीर्तिताः । एतेषां ग्रामवर्गाणां लक्षणं कर्त्यते क्रमात् ॥ ९ ॥ ॥ तत्र प्रथमस्य मण्डकग्रामस्य लक्षणम् ॥ प्राचीं गता मुख्यवीथी वारुणीं स्पृशते यदि । अन्याभिस्तिसृभिर्युक्ता स्थली स्यान्मुख्यं वास्तुषु ॥ वारुण्यां देवतागारं विन्यसेच्च क्रमाद्यदि । विप्रैरधिकसंख्याकैर्मण्डकग्राम ईरितः ॥ ११ ॥ नवमो देवेशप्रामः । दशमो विश्वेशप्रामः । एकादश: कैलासश्रामः । द्वादशो नित्यमङ्गलग्राम इति विवेकः । एतेषां सम लक्षणं क्रमशो वक्ष्यत इति ॥ ९ ॥ तत्राचस्य मण्डकप्रामस्य लक्षणमाह प्राचीमिति । पूर्वप्रतिपादितेषु सद्वास्तुषु यत्र स्थले प्राचीदिशो मुख्यवीथी प्रतीचीं दिशं गाहते, यत्र वारुण्यां दिशि शिवस्य विष्णोर्वा मन्दिरं निर्भीयते, तादृशमन्दिरं तां च मुख्यवीथी मावृत्य कुबेरेन्द्रयमदिग्भाजस्तिस्रोऽन्या विपुला वीथ्यो वर्तन्ते ; यस व इतरजनसंख्यापेक्षया विप्राणामेवाधिक संख्या भवति, तं मण्डकप्राममिति सिद्धान्तिनो वदन्तीति भावः ॥ ११ ॥ १ ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy