SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ३६ धेनुभिर्हरिणैर्वापि तुरगैर्वा विशेषतः । पारावतैः कोकिलैर्वा शुकैः कीरैरथापि वा ॥ १८ ॥ कारण्डैश्चक्रवाकैश्च मयूरैराजहंसकैः । गजैर्वा वृषभैर्वापि मेषसङ्घैर्विशेषतः || भूमिरध्युषिता शस्ता सर्ववास्तुषु कीर्तिता ।। १९ ।। लघुमैकतसंयुक्ता सुखस्पर्शयुतापि वा । निविडा खादुतोयाढ्या समीपजलवर्षिणी ॥ २० ॥ मधुगन्धा पुष्पगन्धा सर्पिर्गन्धा च भूरपि । स्थिरवर्णा च भूशस्ता सर्ववास्तुषु कीर्तिता ॥ २१ ॥ पुनरपि प्रकारान्तरेणोत्तम भूमि लक्षण माह धेनुभिरित्यादिना - धेनुभिरित्यादिश्लोकद्वयं सुगमम् । पूर्व धेन्वादिभिरुषिता भूर्वाऽथवा घेन्यादिजीवजन्तूनामन्येषां च विहङ्गानां सौख्यवर्धनकरी भूमिर्वा वास्तुकर्मणि फलदेति भावः । एवमत्युतम भूमेर्लक्षणमुक्तं भवति ।। १९ ।। लघुमेकतेति । सूक्ष्मसिकतायुता भूमिः सुखस्पर्शी भूमि खिचतुर्हस्तावधि खनने कृते वापीकूपादौ स्वादुरस जलवर्षिणीच भूः मृतिकां प्रति बहुशः परीक्षायामेकवर्णभासुरा भूमिरपि सर्वविध वास्तुकर्मणि प्रशस्ता सर्वेषां जीवानां सर्वेष्वपि समयेष्वत्यन्त सुखप्रदेति भाषः ॥ २१ ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy