SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ३५ केसरैस्सप्तपर्णैर्वा कुद्दालैः कोविदारकैः । आरग्वधैर्मधूकैर्वा प्लक्षैर्वा पाटलैस्तु वा ॥ १५ ॥ श्रीपर्णैर्वा शिरीषैर्वा पूतिकै खदिरैस्तथा । नदीभू नक्तमालैवेणुभिस्तिनिशैरपि ॥ १६ ॥ नळदैवीरणैर्धासैर्नारिकेलरथापि वा। मालत्या कुन्दलतया मुस्तादाडिममंजुलैः॥ द्राक्षालतासमायुक्ता भूमिरेषा शुभप्रदा ॥ १७ ॥ स्थलान्तरे स्थापिता यदि तदा स्वल्पफलदा एव भवेयुः। त एवान्यत्र स्थले स्थापिता यदि वदानीमेवाङकुरादिहीना भवन्ति, अथवा कालक्रमेण क्षीणदशां प्राप्नुवन्तीति प्रसिद्धिमालोच्य श्रीवृक्षनिम्बादिवृक्षाणां वर्धनकारिणी भूमिरेव सकलवास्तुकार्याय योग्येति समयः । एवमुत्तमभूमावारोपितास्तरवो विशेषफलदा भवन्ति । मध्यमभमावारोपिताः स्वल्पफलदाः। अधमभम्यामारोपिता वृक्षादयः स्वयमेव क्षीणा भवन्तीति प्रसिद्धिमवलम्म्य श्रीवृक्षायुपेता भूमिस्सर्ववास्तुयोग्या । अथवा श्रीवृक्षादिपर्धनकरी च भूमिर्वास्तुयोग्या । तथा मालत्यादिलताविततिवर्धनकारिणी भूमिश्च वास्तुकार्यादिषु विशेषसुखदा भवेदिति भावः । एवमुत्तमभूमेर्लक्षणमुक्तं भवति ॥ १७ ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy