________________
मेषस्थे वृषभस्थे च छाया तु व्यङ्गुला मता। मिथुनस्थे झपस्थे च छाया पश्चाङ्गुला मता ॥२७॥ मीनस्थ च कचिच्छाया न भवेदिति तान्त्रिकाः । कुलीरस्थे रवो चापस्थिते च न हि सा स्फुटा ॥ २८ ।। सिमकन्यास्थिते भानौ सा चतुष्पञ्चका मता। तुलास्थिते द्वयगुला स्यादिति छायाक्रमो भवेत ॥ शकुस्थापनवलाया विप्रेभ्या बहुदक्षिणाः । मार्दनिकैः स्वस्तिकैश्च जयशब्दश्शुभावहः ॥ ३० ॥
पूर्वोक्तक्रमेण शङ्कास्थापने कृते काम्भोजादिदेशेषु रवी मकरादिमासत्रयं गते सति शङ्कोश्छाया एकाङ्गुला भवेत् । मेषवृषभगे सति शङ्कुच्छाया व्यङ्गुला, मिथुनमृगनाथराशिभाजि रवी छाया पश्चाङ्गुला मता । कदाचित्पूर्वोक्तदेशेषु मीनस्थे सति रवी छाया पार्श्वगा न भवेदिति शिल्पितान्त्रिकाणां मतमिति च ज्ञेयम् ॥
___ रवी कुलीरस्थे चापस्थिते च सा शङ्कच्छाया साकल्यन न स्फुटा पार्श्वगता न भवेदित्यर्थः । सिमस्थे रवौ चतुरङ्गुला, कन्यास्थे पञ्चाङ्गुला, तुलास्थे द्वगगुलेति यथाक्रम मण्डलपार्श्वगतायाश्छायायाः लक्षणं ज्ञेयं सूक्ष्मद शिभिरित्येवं सूक्ष्मेण चक्षुषा सर्वत्र शल्कुस्थापनप्रकारो ज्ञेयः । शकुस्थापनकाले ब्राह्मणानां वेदपारगाणां बहुशो दक्षिणादानं, मङ्गलवाद्यवादनं,