SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ एहोलेका लेख विधिवदुपचिताभिः शक्तिभिः शक्रकल्प स्तिसृभिरपि गुणौधैः खैश्च माहाकुलाद्यैः । अनमदधिपतित्वं यो महाराष्ट्रकाणां नवनवतिसहस्रनाममाजां त्रयाणाम् ॥ २५ ॥ गृहिणां स्वगुणैत्रिवर्गतुङ्गा विहितान्यक्षितिपालमानभङ्गाः । अभवन्नुपजातभीतिलिङ्गा यदनीकेन सकोसलाः कलिङ्गः ॥२६॥ पिष्टं पिष्टपुरं येन जातं दुर्गमदुर्गमम् । चित्रं यस्य कलेवृत्तं जातं दुर्गमदुर्गमम् ॥ २७ ॥ संनद्धवारण घटास्थगितान्तरालं नानायुधक्षतनरक्षतजाङ्गरागम् । आसीजलं यदवमर्दितमभ्रगर्भा केंणालमम्बरमिवोर्जिनसांध्यरागम् ॥ २८ ॥ उद्भूतामलचामरध्वजशतच्छन्नान्धकारैर्बलैः शौर्योत्साहरसोद्धितारिमथनैर्मीलादिभिः पड्विधैः । आक्रान्तात्मबलोन्नतिं बलरजःसंछन्नकाञ्चीपुरः प्राकारान्तरितप्रतापमकरोधः पल्लवानां पतिम् ॥२९॥ कावेरी द्रुतशफरीविलोलनेत्रा चोलानां सपदि जयोद्यतस्तस्य (८) । प्रश्चयोतन्मदगजसेतुरुद्धनीरा संस्पर्श परिहरति स्म रत्नराशेः ॥३०॥ चोलकेरलपाण्ड्यानां योऽभूत्तत्र महर्द्धये । पल्लवानीकनीहारतुहिनेतरदीधितिः ॥ ३१॥ उत्साहप्रभुमन्त्रशक्तिसहिते यस्मिन्समन्तादिशो जित्वा भूमिपतीन्विसृज्य महितानाराध्य देवद्विजान् । शि०७
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy