SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४५७ कण्डिका ३] परिशिष्टम् । इत्योच्छिष्टसमीपे दर्भेषु त्रीस्त्रीन् पिण्डानवनेज्य दद्यादाचान्तेष्वित्येक आचान्तेषूदकं पुष्पाण्यक्षतानक्षय्योदकं च दद्यादघोराः पितरः सन्तु सन्त्वित्युक्ते गोत्रं नो वर्धतां वर्धतामित्युक्ते दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमबहुधेयं च नोऽरित्वत्याशिषः प्रतिगृह्य स्वधावाचनीयान्त्सपवित्रान् कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वघोच्यतामित्यस्तु स्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निषिञ्चति ऊर्जमित्युत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्याद् ब्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा वाजेवाजेवतेति विसृज्यामावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्योपविशेत् ॥ ३ ॥ ॥ ७ ॥ (कर्कः )-'उद्धृत्य "रिष्य इति' वैश्वदेवादन्नादुद्धृत्य घृतेनाक्तं, ततः पृच्छति अग्नौ करिष्य इत्यनेन मन्त्रेण । श्राद्धार्थ पृथक्षाकमिच्छन्त्यपरे । पिण्डदानेऽनुज्ञावचनात् । स्मृत्यन्तरेऽपि दर्शयति श्राद्धोत्तरकालं, ततो गृहवलिं कुर्त्यादिति । एतच्च पृथक पाक एवोपपद्यते, यदि वैश्वदेवान्नेन श्राद्धमपि स्यात् ततः पूर्व गृहबलिना भवितव्यम् । तस्मात् पृथक्पाक इति, तदेतदपेशलम् । सर्वार्थस्य विद्यमानत्वात् । पृथक्पाकस्यावचनात् । तथा च स्मृतिः-पितृयज्ञं तु निवृत्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकमिति । पितृयज्ञशब्देनोदकतर्पणादि पञ्चमहायज्ञाख्यं कर्मोच्यते । तदेकदेशवचनात् तत्संबन्धित्वादितरेऽपि लक्ष्यन्ते । केचित्तु पितृयज्ञं दार्शिकमभिवदन्ति । तदसत् । न हि पितृयज्ञः सः । कि तर्हि पिण्डपितृयज्ञः सः । तस्मात् पितृयज्ञं निर्वत्येति पञ्चमहायज्ञान् कृत्वेत्यर्थः । अतो वैश्वदेवादन्नात् श्राद्धमपि कर्तव्यम् । यत्त्वनुज्ञावचनं, सोऽदृष्टार्थोऽन्नसंस्कारः । तृप्तिप्रश्नवत् । यच्च श्राद्धोत्तरकालं गृहवलिन स वैश्वदेवः । किं तर्हि अन्य एव वास्तुदेवताभ्यो वैश्वदेवव्यतिरेकेणेति । 'कुरु' 'पात्रमिति ' कुरुष्वेति ब्राह्मणैरनुज्ञातः पिण्डपितृयज्ञवदावसथ्ये जुहोति । पिण्डपितृयज्ञवद्ग्रहणं न कर्तव्यम् । पिण्डपितृयज्ञवदुपचार इत्युक्तत्वात् , तस्मात्परिस्तरणादि यथासंभवेतिकर्तव्यतापरिसंख्यानार्थ द्रष्टव्यम् । हुतशेपं दत्वा, विशेषानवगमात्सर्वेभ्यो देयम् । पात्रमालभ्य पृथिवी त इत्यमुं मन्त्रं जपेत् । आलभ्य मन्त्रः । न मन्त्रान्ते आलम्भनम् । पात्रस्यैवोद्दिश्यमानत्वात् प्रतिपात्रमालम्भनम् । 'वैष्णव्य "दद्यात् । नियताक्षरपादावसाना ऋगित्युच्यते । अनियताक्षरपादावसानं यजुः । तयोरन्यतरेण पात्रस्थितेऽन्ने अङ्गुष्ठावगाहनं कर्तव्यम् । अपहता इत्यनेन मन्त्रेण ब्राह्मणानामप्रतस्तिलान् प्रकिरेत् । रक्षोनत्वात् , उदङ्मुखानाम् । अविशेपादितरेषामपीतिचेत् । न । स्वत एव रक्षोन्नत्वात्तेपाम् । उष्णं स्विष्टमन्नं देयम् उष्णग्रहणं न कर्तव्यं प्रतिषिद्धत्वादितरस्य । तस्माद्यत्पर्युषितमन्नाद्यं तत्प्रतिषेधायेदमुच्यते । तच्चैतत् । यवगोधूमजं सर्व पयसश्चैव विक्रिया । तत्पर्युपितमप्याद्यं स्नेहाक्तं चैव यद्भवेत् । अपरे त्वन्यथा वर्णयन्ति, यावदुष्णं भवेदन्नं तावद्देयमिति । 'शक्त्या वा' स्विष्टाभावे शत्त्या दद्यात् । अन्न "त्राणि ' प्रणवेन महान्याहृतिभिश्च त्रिर्जपेद्गायत्रीं सकृद्धा, कृणुष्व पाज इति
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy