SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४५६ पारस्करगृह्यसूत्रम् । [श्राद्धसूत्र रित्यविरोधः इति । कश्चित्प्रेतश्राद्धशाकविषयो निषेध इत्यर्थः । दीपवखोपवीतकमित्युक्तम् । वस्त्रालामे यज्ञोपवीतकमिति खादिरम् । वृद्धयाज्ञवल्क्योऽपि-तुलसी भृङ्गराजं च अपामार्ग शमी तथा । पितृमूर्धनि यो दद्यात्स याति परमां गतिमिति । अन्यत्स्मृत्यन्तरेभ्यो द्रष्टव्यम् । अत्रैतत्संदिह्यते-किं गन्धादिदानं तन्त्रेणोत प्रतिपुरुषमिति । उभयथा वचनदर्शनात् । तथा हि शाट्यायनः एष ते गन्ध एतत्ते पुष्पमेष ते धूप एतत्ते आच्छादनम् । विष्णुरपि-नमो विश्वेभ्यो देवेभ्यः इत्येवमादौ प्राड्मुखयोर्निवेद्य पित्रेपितामहायप्रपितामहाय नामगोत्रेभ्य उदड्मुखेभ्य इति । ब्रह्मपुराणे-इदं वः पुष्पमित्युक्त्वा पुष्पाणि च निवेदयेत् । अयं वो धूप इत्युक्त्वा तदने तु दहेत्ततः । अयं वो दीप इत्युक्त्वा हृद्यं दीपं निवेदयेत् । अनङ्गलग्नं यस्त्रिं विभवे सति तद्युगम् । शांवोऽपि-इदं वो ज्योतिरित्युक्त्वा दीपं तेषां प्रदर्शयेत् । नो ज्योतिरस्ति ते सर्वे वक्तव्यं तदनन्तरम् । इति । अत्र गन्धपुष्पेत्यादिसुत्रम् । अघेऽभय्योदक इति कात्यायनेना_दिव्यतिरिक्तगन्धादौ तन्त्रमेवोक्तम् । एवं वचनविप्रतिपत्तौ ह्येक आहुः । सूत्रोक्तत्वादयं वो धूप इति वःशब्दनिर्देशाच्च गन्धादौ तन्त्रप्रतीतिरस्मपितामहामुकशमन्नस्मपितरमुकशर्मन्नित्येवं गोत्रााचार्य एष वो गन्धः स्वधेति वाक्यं सूचितमित्यन्ये । तदेतद्विचारणीयम् यद्यग्नीषोमवन्मिलितदेवतात्वभयात्पार्थक्येन सर्वत्र दानमित्युच्येत तदा_दिव्यतिरिक्तपदार्थेषु विहितस्य तन्त्रस्य गोत्राणामासने प्रोक्तमित्यादिवाक्यानां च वैयर्थ्यं स्यात् । अथासनादिदानेषु तन्त्रस्य विहितत्वात् गन्धादिदानेऽपि तन्त्रमित्युच्यते तर्हि शाट्यायनायुक्तपदार्थे तस्य गोत्राणामासने प्रोक्तमित्यादिवाक्यानां च वैयर्थ्यमित्युभयथाऽपि संदेह आपद्यते । तस्माद्यवान्याय(?)स्तंत्रविधानं तत्र तन्त्रं यत्र पार्थक्यं तत्र तथैवेत्युभयविष्योः सिद्धिरिति । गन्धादिषुभयविधानस्य दृश्यमानत्वादुभयविधं वाक्यं कर्तव्यं गन्धादिव्यतिरिक्तेषु तन्त्रमिति युक्तम् । अतश्चास्मत्सितरमुकशर्मनस्मपितामहामुकशमन्नस्मत्प्रपितामहामुकुशर्मनित्याधुच्चारणेन पृथगुदिश्य वाक्यान्ते एष वो गन्धः खधेत्युभयविधं वाक्यं युक्तमित्याभाति । गन्धादयश्च पृथक्पृथक् देया इत्याह कात्यायनः । गन्धान्त्राह्मणसात्कृत्वा पुष्पाण्यूतुभवानि च । धूपं चैवानुपूव्र्येण अग्नौकुर्यादतः परम् । इदं वः पुष्पमित्युत्तवेत्यादिब्रह्मपुराणवचनं दर्शितम् । एवं गन्धादि दत्त्वाचम्य संपूर्णपृच्छां कृत्वा संस्रवोदकेन पुत्रादिकामो मुखं प्रमाष्टिं । तथा च कात्यायन:-श्राद्धारम्भावसाने च पादशौचे तथाऽर्चने । विकिरे पिण्डदाने च षद्सु चाचमनं स्मृतम् । कात्यायन:संस्रवान्समवनीयपुत्रकामो मुखमनक्तीति ॥२॥ ॥ * ॥ ॥ॐ॥ उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञवडुत्वा हुतशेषं दत्वा पात्रमालभ्य जपति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति वैष्णव्यर्चा यजुषा वाऽगुष्ठमन्नेऽवगाह्यापहता इति तिलान्प्रकीर्योष्ण स्विष्टमन्नं दद्याच्छक्त्या वाऽश्नत्सु जपेयाहृतिपूर्वाङ्गायत्री सप्रणवाठ सकृत्रिर्वा राक्षोनी: पिन्यमन्त्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि तृप्तान ज्ञात्वाऽन्नं प्रकीर्य सकृत्सकृदपो दत्वा पूर्ववद्गायत्रीञ्जपित्वा मधुमतीमधुमध्विति च तृप्ताः स्थेति पृच्छति तृप्ताः स्म इत्यनुज्ञातः शेषमन्नमनुज्ञाप्य सर्वमन्नमेकतो
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy