SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३९२ पोरस्करगृह्यसूत्रम्। . [त्रयोदशी दिति स्मृतेश्च । एवं कृते तस्य कर्मान्तरे अधिकारः। इति स्वेच्छया वलाद्वा व्यभिचरितस्य ब्रह्मचारिणः प्रायश्चित्तमुक्त्वा प्रकारान्तरेणाहुतिद्वयरूपं प्रायश्चितान्तरमाह । ' अथा""स्मीत्यादि । अथ पश्वनन्तरमपरं प्रायश्चितं वैकल्पिकमुच्यते । अपरशब्दो विकल्पार्थे सूत्रसामाधिकरण्यात् । तथाच सूत्रं वावकीणिनो गर्दभेज्येति । वाशब्दो व्यवस्थितविकल्पार्थः । संकटपतितस्य वलात् स्त्रिया इच्छया व्यभिचरितस्य स्वल्पं प्रायश्चित्तमाह । संवत्सरपर्यन्तं नित्यमग्निस्थापनं कृत्वा कुशंडीपूर्वकमाज्यतन्त्रेणाघारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चितं प्राजापत्यः स्विष्टकृचेति चतुर्दशाहुतीहुँत्वा ततः कामावकीणोंस्मि कामाभिदुग्धोस्मि इत्याहुतिद्वयं हुत्वा । अथोत्विति । एवं षोडशाहुतिहोमान्ते अग्निमुपतिष्ठते प्रत्यहम् । ' एतदेव प्रायश्चित्तं । एतत्पूर्वोक्तं द्विप्रकारकमयकीर्णिप्रायश्चित्तं भवति ॥ द्वादशी कण्डिका ॥ १२ ॥ ॥* ॥ अथातः सभाप्रवेशनम् ॥१॥ सभामभ्येति सभाङ्गिरसि नादिर्नामासि विषिर्नामासि तस्यै ते नम इति ॥ २ ॥ अथ प्रविशति सभा च मासमितिश्चोभे प्रजापतेर्दुहितरौ सचेतसौ । यो मा न विद्यादुप मा स तिष्ठेत्स चेतनो भवतु शर्छन्सथे जन इति॥ ३ ॥ पर्षदमेत्य जपेदभिभूरहमागमविराडप्रतिवाश्याः । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जन इति ॥ ४ ॥ स यदि मन्येत क्रुद्धोऽयमिति तमभिमन्त्रयते, या त एषा रराट्या तनूमन्यो: क्रोधस्य नाशनी । तान्देवा ब्रह्मचारिणो विनयन्तु सुमेधसः ॥ द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि गर्भमश्वतर्यसहासाविति ॥ ५ ॥ अथ यदि मन्येत दुग्धोऽयमिति तमभिमन्त्रयते तां ते वाचमास्य आदत्ते हृदय आदधे यत्र यत्र निहिता वाक्तां ततस्तत आददे यदहं ब्रवीमि तत्सत्यमधरो मत्तांद्यस्वेति ॥ ६॥ एतदेव वशीकरणम् ॥ ॥७॥ ॥१३॥ (कर्कः)-अथातः सभाप्रवेशनमित्येवमादि यत्तत्सवै निगदव्याख्यातमेव । इति श्री कर्कोपाध्यायकृतौ गृह्यसूत्रभाष्ये तृतीयकाण्डविवरण सपूर्णम् ॥ (जयरामः)-सभाप्रवेशनम् । वक्ष्यत इति सूत्रशेषः । तत्र सभां प्रति अभ्येति अभिमुखं गच्छति सभानिरसीत्यनेन मन्त्रेण । तस्यार्थः । तत्रादिरा गायत्री सभा तत्प्रवेशने० । सह धर्मेण सद्भिर्वा भातीति सभा । तथा नादिर्नदनशीला नाम नाम्नासि । हे आङ्गिरसि आङ्गिरोदेवते वृहस्पत्यधिष्ठिते वा विषिर्दीता नाम प्रसिद्धमसि । धर्मनिरूपणात् । तस्यै उक्तगुणवत्यै ते तुभ्यं नमो ऽस्तु । अथ प्रवेशनमन्त्रार्थः । तत्र प्रजापतिस्त्रिष्टुप् सभा समितिश्च प्रवेशने० । सभा च संसत समितिश्च संगरः ते उभे प्रजापतेर्ब्रह्मणो दुहितरौ पुन्यौ मा मामवतामिति शेपः । यत एते सचेतसो शोभनज्ञानदान्यौ । अथ सभावचनं सभासदः प्रति । यः पुमान् मां न विद्यात् मद्यवहारं न जानीयात् स पुमान् मा मामुपतिप्ठेत् उपासीत । ततो ऽसौ शंसथे संभाषणाय सचेतनः सुबुद्धिः वादक शल इत्यर्थः । भवतु मत्प्रभावादित्याशंसा । पर्षद सभामेत्यागत्य जपेदभिभूरहमिति मन्त्रम् । १'मन्यो, इत्यपि क्वचित्पाठः।
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy