________________
कण्डिका] तृतीयकाण्डम् ।
३९१ अवदानग्रहणादापारादीनां लौकिकानावेव होमः । 'भूमौ "पणम् । भूमावेव न कपालेयु पुरोडाशस्य श्रपणं पाको भवति, शाखापशौ पुरोडाशाभावात् । इहापूर्वः पुरोडाशोऽर्याद्विधीयते तस्य च संस्कार आज्येन सह क्रियते । 'तां छविं तैयन् । ताम् आलब्धस्य गर्दभस्य छवि कृत्तिं परिदधीत प्रोणुवीत आच्छादयीतेति यावत् , एके आचार्याः तामूर्द्धवालामुपरिपुच्छां परिधीतेति वर्णयन्ति, अपरे तिर्यग्वालाम् । ततश्च विकल्पः । गर्दभपश्वालम्भानन्तरं तच्छविं परिदधानः संवत्सरं यावद्धिक्षाचय चरेत् , किं कुर्वन् स्वकर्म स्वीयमवकीर्णित्वं परिकीर्तयन सर्वतः प्रकथयन अहमवकीर्णी भवति भिक्षां देहीत्येवमादिना । स्वकर्मपरिख्यापनं कुत इति चेत् निरुक्तं वा एनः कनीयो भवतीति श्रुतेः । 'अथापरम् । अथेदानीमपरमन्यत्प्रायश्चित्तान्तरमवकीणिनोऽभिधीयते तदाह । ' आज्या "स्वाहेति' कामावकीर्णोऽस्मि कामाभिदुग्धोऽस्मीत्येताभ्यां मंत्राभ्यां प्रतिमन्त्रमेकैकामेवमाज्याहुती द्वे जुहोति। इदं कामायेति उभयत्र त्यागः । ते च द्वे आगन्तुत्वाञ्चतुर्दशाहुत्यन्ते, आगन्तूनामन्ते निवेश इति न्यायात् । ' अथो "श्चित्तम् । अथ होमानन्तरमुपतिष्ठते ऊभूय संमासिञ्चन्त्रित्यादिना मन्त्रेण लिझोक्ता देवताः प्रार्थयते, संवत्सरमित्यत्राप्यनुवर्तते अतः प्रतिदिनं पञ्चभूसंस्कारपूर्वकं लौकिकाग्निं स्थापयित्वा आधारादिविष्टकृदन्ताश्चतुर्दशाज्याहुतीर्तुत्वा कामावकीर्णोऽस्मि कामाभिदुग्धोस्मीत्येजाभ्यां मन्त्राभ्यां प्रतिमन्त्रमाज्याहुतिद्वयं हुत्वा समासिञ्चन्विति मन्त्रेणोपतिष्ठते संवत्सरं यावत् , एतदेव यदुक्तं गर्दभपश्वालम्भनरूपमाज्याहुतिहोमात्मकं च तदवकीर्णिनः प्रायश्चित्तद्र्य विज्ञेयमिति सूत्रार्थः ।। १२ ।। ॥ * ॥
(विश्व०)-अथार्घपशुप्रकरणोपात्तं नाववाद्धिकं पशुमुक्त्वा अवकीर्णिप्रायश्चित्तार्थ सदैवतं द्विप्रकारकं गर्दभपशुकरणविधिमाह ' अथा' "श्चित्तं तत्राथशब्द मानन्तर्ये । पूर्वोपक्रान्तस्य पशोरुत्तरत्रेति । अतःशब्दो हेत्वर्थे । अवकीर्णिनः पतितप्रायश्चितपश्वालम्भनमन्तरोत्तरत्र कर्मस्वनविकारः । अतो हेतोस्तस्य प्रायश्चित्तं वक्ष्यत इति । ब्रह्मचारी सन्यः स्त्रियं गच्छति सोऽवकीर्णीत्युच्यते । तस्य प्रायश्चित्तार्थायां गर्दभेज्यायामधिकारः। स कदा कर्तव्य इत्यत आह 'अमावा' 'त' अमावास्यायां प्रायश्चित्तं पतनोत्तरकालीनायां संनिध्यमावास्यायाम् । चतुष्पथे चत्वारः पन्थानो यत्र स्तस्मिन् गर्दभं गर्दभजातिसंवन्धिनं पशुमालमते पशुहननप्रकारेणाग्निस्थापनपूर्वकम् । 'निर्वजेत् । तत्र तत्कर्म केन विधिना कुत्र कथं कर्तव्यमितिसंशये निर्गतिदेवताक पाकयज्ञविधिना कर्तव्यः पूर्वोक्तप्रकारेण अथ? व न]ौतविधिना नापिहविर्यज्ञविधिना पशुरुक्त: औते प्राशिवावदानदर्शनात् । पाकयज्ञोक्तविधिनोच्यते । पश्ववदानहोमे पशुपुरोडाशे च नितिर्देवता। वपाया अभावाद्धपाहोमाभावः ॥ 'अप्स्ववदानहोमः' गर्दभस्यावदानहोम उदके कर्तव्यः । तदर्थमग्निस्थापनवेलायां तद्धर्मेण तदुत्तरत उदपात्रस्थापनमवदानहोमार्थम् । अन्यद्धोमः स्थापितेग्नौपशुपुरोडाश आधारावाज्यभागादि । 'भूमौ पशुपुरोडाशश्रपणं'न कपाले । इदं स्मार्त्तपशौ विशेषविधानम् स्मातें कर्मणि पशुपुरोडाशाभावः । तत्पुरोडाशश्रपणं भूमावेव कर्त्तव्यं । एतावतैव सूत्रेण पूर्वोक्तः पशुः सूचितः। श्रौतविधिश्चेत्तदा तदीयैर्धमैः पशुर्भवति । तत्र प्राशिवावदानं गर्दभशिश्नात् [प्रजननादवदेयम् । अथ पशुसमात्यनन्तरं पापक्षयाय भिक्षाटनप्रकारमाह 'तां छविं परिदधीत' तस्यैव गर्दभस्य त्वचं परिदधीत । छविस्वक् । कथं परिधीत दक्षिणेसे शिरः उत्तरेसे पुच्छः अब ऊद्धौं पादौ । शरीरलग्नवालाम् ऊर्द्धवालामित्येके । परिधाने विकल्प: । उपरिवालाम् । अथवा वालशब्देन पुच्छमुच्यते । ऊर्दूपुच्छामधस्तनग्रीवां परिदधीत । तत्र मस्तकभागे पुच्छं पादसमीपे ग्रीवा दक्षिणसन्यांसयोः पादौ एवं परिधाय । 'संव'' 'यन् ! सावनसंवत्सरं यावद्हे गृहे स्वकर्मकथनपूर्वकं भिक्षा चरेत अहमवकीर्णी भिक्षा देहीत्येवम् । निरुक्तं वा एनः कनीयो भवतीति श्रुतेः । पापं क्षरति कीर्तना