SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६४ आत्मतत्वविवेकः त्स (१) मवधानेऽपि न कुर्यात् तज्जातीयमकरणमेव स्यात (२), समवधानासमवधानयोरुभयो (३)रप्यकरणात् । एवं (४) तत्समवधानविरहेपि यदि (५) कुर्यात् सहकारिणो (६) न कारणं स्युः, तानन्तरेणापि करणात् । तथा चानन्यथासिद्धान्वयव्यतिरेकत्रताम (प्य) कारणत्वे कार्यस्याकस्मिकत्वप्रसङ्गः(७) । तथा च कादाचित्क - दीधितिः । म्वरूपतया पृथगुपदर्शितः । तज्जातीयम् तद्धर्मावच्छिन्नम् । अ कारणम् (८) अस्त्ररूपयोग्यं तथात्वं च प्रामाणिकमिति भावः । एवमिति । सहकारिणो यदि तत्कार्यकारणापेक्षणीया न स्युः तत्कार्यकारणानि न स्युरित्यर्थः । तेन न वैयधिकरण्यम् ( ९ ) । तथा चेति । तुल्यन्यायतया सर्वेषामेवाकारणत्वादिति भावः । दीधितिटिप्पणी | तज्जातीयमितरधर्मावच्छेदेनास्वरूप योग्य मेवेत्यत आह । तद्धर्मेति । तथा च तद्धर्मावच्छेदेन स्वरूपयोग्यत्वाभावः साध्य इत्यर्थः । ननु सहकारिणामकारणत्वेपि सहकारितानिरूपकदण्डादेः कारणत्वं कथं बाधितमत आह । तुल्येति । दण्डादेरपि चक्रादिसहकारितया सहकारिणामकारणत्वे दण्डस्याकारणत्वमेव स्यादित्यर्थः । मूले ( १ ) यत् सहकारिसमवधानेऽप्यकुर्वाणं यदि तत्सहकारिस- पाठः । (२) तज्जतीयमकारणं स्यात् पाठः । (३) समवधानयो।-पाठः । ( ४ ) एवं यदि - पाठः । (५) विरहे - पाठः । (६) गोपि - पुण० पु० पा० । (७) कार्यस्याकारणकत्वप्रसङ्गः पाठः । ( ८ ) अकरणम् - कलि० सु० पु० पा० । (९) तेन वैयाधिकरण्यं न-पाठः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy