SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आत्मवस्यविवेकः कल्पलता । विति । अन्यथेति । यदि यथाकथञ्चित् समर्थव्यवहारनिबन्धनमेव करणं स्यात् तदा भ्रान्ततादृशव्यवहा रगोचरशिलाशकलादेरप्यङ्करः स्यादित्यर्थः । यद्वा कुशलस्थस्यापि (मुख्य) समर्थव्यवहारगोचरत्वे ततोप्यङ्करः स्यादित्यनियमप्रसङ्ग इत्यर्थः । मुख्यव्यवहारं प्रति निमित्तं ( १ ) विकल्प्य दूषयति । न तावदिति । अ नियमप्रसङ्गं परिहरति (२) । नियमस्य चेति । कुशलस्थस्य मुख्यसमर्थव्यवहारगोचरत्वेप्यकुराजननं सहकारवैधुप्रयुक्तमिति नानियम इत्यर्थः । ( एवं ) बीजं 'जनयत्येवेत्यस्यन्तायोगव्यवच्छेदो नियमः, सहकारिसमवहितमेव जनयति, जनयत्येवेत्पन्ययोगायोगाभ्यां नियमः (३) । शिलायां न प्रथमः, केबलबीजे (तु) न द्वितीय ( ४ ) इति भावः । मुख्य समर्थव्यवहारगोचरत्वमुपसंहरति । ततश्चेति । कदाचिज्जननमेव शिलाशकदिविलक्षणं (५) मुख्यसमर्थव्यवहारगोचरत्वे मूलम्, तथा च यदि समर्थव्यवहारगोचरः स्थात् तदा कुर्या दितिन व्याप्तिरस्तीत्यतः प्रसङ्गे मूलशैथिल्यमित्यर्थः । यक्ष सस्त्रक्षणिकत्वयोरेतावता न व्याप्तिसिद्धिरित्यर्थः ॥ (१) व्यवहारनिमित्तं - पुण० पु० पा० । (२) दूषयति पाठः । (३) अयमेव सार्वत्रिकः पाठः । जनयत्येवेत्ययोगाग्ययोगाभ्यां नियमः पुण० पु० पा० । जनयत्येवेत्यन्ययोगात्यन्तायोगाभ्यां नियमश्व-कलि० मु० पु० पा० । ( ४ ) न तु द्वितीय - पाठः । (५) विलक्षण - कलि० मु० पु० पा० ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy