________________
भारमतत्वविवेक दुपायमाकर्णयन्ति, न ततोऽन्यम् । प्रतियोग्यनुयोगित
दीधितिः । कामुकस्य गुरुजनसविधानम्,असदेव वा ब्योमकमलिनीपसूनपूतिगन्धवदितिशङ्कात्रयनिरासाय निसर्गादि सिद्धमियन्तम् । अनुसरन्तः कोऽस्योपाय इति जिज्ञासवः । अध्यात्मवित् आत्मतत्वज्ञः। एकवाक्यता ऐकमत्यम् , कारणे कार्योपचारात् । एकं एकार्थप्रति. पादकं वाक्यं येषामिति वा । आफर्णयन्ति शब्दादयधारयन्ति ।
दीधितिटिप्पणी। भावमिति । इदमेष त्यागे कारणमिति भावः । ननु सुखविरोधितया दुःखे प्रातिकूल्यस्वभाषः, तथा च यदुःखेऽसति सुखं जायते तबजैनीयं स्यात, सुखाविरोधि तु दुःखं कथं वर्जनीयमत उक्तम्, निस. गैति । तथा च स्वभावत एव तत् प्रतिकूलमिति सर्वमेव वर्जनीय मिति भावः । यद्यपि निसर्गपदस्याद्यत्वात् तत्प्रयोजनमेवाने दर्शयितुमुचितं, तथाऽपि विशेष्यस्य प्रयोजनकथनेनैव तत्कथनं निर्वहतीति व्युत्क्रमेण प्रयोजनमभिहितम् । अन्यथा कुत्र तहाने प्र. योजनं स्यात् । सर्वजनेत्यादेः प्रयोजनमाह । असदेवति । असदेव अलीकमेव, दुःखं धर्जनीयं स्यादित्यर्थः(१) । इयं च पौ. खीयशङ्का । तथा च व्योमकमलवदित्येतापतैव सामञ्जस्ये आश्रयस्याऽऽत्मनोऽप्यसत्वबोधनाय प्रसूनेत्युपादानम(२) । कारण इति ।(३) वाक्यस्य कारणे. मती कार्यवाचकपदस्य एकवाक्यपदस्य लक्षणेत्यर्थः । ननु भिनानामेका मतिर्बाधिता, तथा चैकपदस्यैकार्थविषयत्वे लक्षणा पाच्या, एवं चैकपदे लक्षणाया आवश्यकत्वेऽलं वाक्यपदे लक्षणयेत्यतस्तथैवाऽऽह । एकमेकार्थेत्यादि । आकर्णनस्य श्रौत्रज्ञानस्य तत्त्वज्ञानविषयत्वासम्भवादाह । शब्दादित्यादि । अनुमानाविना तदनवधारणायुक्तम, शब्दादिति । तथा च तत्वज्ञानमेवाऽसाधारणं घेदरूपशब्दादवधारयन्तीत्यर्थः ।
(१) तथा च दुःखस्य नित्यनिवृत्ततया तद्धानार्थ प्रवृत्तिरनुपपन्नोति भावः । (२) तथा च कस्यापवर्गार्थ प्रवृत्तिरिति भावः।। (१) इदं प्रतीकमादर्शपुस्तके नास्ति , योग्यतामनुचिन्त्य कल्पितमेव ।