SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ म दीधितिः । इति । जगतां निखिल (१)शरीरिणाम् । पित्रे जनकाच । तथा च स्पर्यंते 'पिताहमस्य जगतः' इति । पूर्वगुरुभ्यः कपिलकमलासनादिभ्य उत्तमाय, तेषामपि स एव जनक इति भावः । तस्मै (२) कस्मै इत्यपेक्षायामाह । स्वाम्यं यस्येत्यादि । आदौ सर्गाौ जनितेषु उत्पादितेषु जगत्सु यस्य निजं क्रयाद्यनपेक्षं (३) स्वाम्यम् । दीधितिटिप्पणी । दानमुत्कर्षाधिक्यबोधनाय । निखिलेति । सर्वद्रव्योत्पत्तिकरणाद्यभावात् शरीरिणामित्युक्तम् । तस्मै इति । यद्यपि जगतां पित्र इत्यस्मादेव कस्मावित्यपेक्षा नास्ति, तथाऽप्येतादृशसादृश्याभावे रूपकमनुपपन्नमिति पितृसाम्यमाहं स्वाम्यमित्यादीति व्याख्येयम् । तत इत्यनेनैवाऽऽदित्यप्राप्राह । आदाबिति । न च सर्गमध्येऽपि ताहरास्वाम्यमस्ति, अतः कथं सङ्कोच इति वाच्यम् । क्रयाद्यनपेक्षमित्य 1 तेष्कः' इति च मथुरानाथश्च । अत्रोच्यते । ईशपदार्थस्यैकव्यक्तिकतया सर्वज्ञत्वादिकं जगानमानुकूलकृतिमत्त्वादिकं वा नेशपदशक्यतावच्छेदकम्, आकाशादिपदवदीशादिपदेऽपि निरवच्छत्रैव शक्तिः, तत्पदादष्टद्रव्यातिरिकद्रव्यत्य शब्दाश्रयत्वादिनेव सार्वज्ञादिजगत्कर्तृत्वादिनैवेशपदादपि बोध इत्याचार्यस्वारस्यात् । तदुक्तं द्रव्यकिरणावल्यामाचार्यैः, 'यः शब्दाश्रयस्तदाकाशमित्येवं शब्दाश्रयत्वमेवोपाधिः स्यात् । न । शब्दाश्रयत्वस्योपलक्षणतया तटस्थत्वात्, अयमसौ देवदत्त इत्यत्रेदताव | अन्यथा शब्दगुणकमाकाशमिति सहप्रयोगो न स्यात्' इति । तथाऽपीशपदस्य निरवच्छिन्न शक्ति म स्वमुक्तमन्यात्र लब्धमिति चेन्न । शक्तिवादटीकायां हरिनाथतर्क सिद्धान्तेन ' एवंरीत्यैव मगनकालादिशब्देऽपि हेतुहेतुमद्भावो बोध्यः' इत्युक्तत्वात् । एवं च तादृशतत्तद्धर्मप्रकार कशाब्दबोधं प्रति तत्तद्धर्मावच्छिन्न विशेष्यकनिरवच्छिन्नतत्तत्पदवाच्यतावगाहिज्ञानस्य हेतुत्वात् 'यः सर्वज्ञः' इत्यादिश्रुतावीश्वरस्य तादृशधर्मवत्तया लाभेऽपि तादृशधर्मावच्छिन्न ईशादिपदवाच्यत्वा · लाभात्तल्लाभायैव स्मृत्यनुसरणमिति मन्तव्यम् । (१) जगतामित्यत्र जगत्पदं न जन्यमात्रार्थकं तथा सति घटादौ व्युत्पत्यादेर्बाधितत्वेनामि-मग्रन्थासङ्गतेः नापि सुखसमवायिकारणतावच्छेदकतया सिद्धजातिविशेषावच्छिन्नो जीवस्तथा, तप्रत्यनन्वयादिस्यतो व्याचष्टे । निखिलेति । आत्मनिरूपितस्य जनकत्वस्य माधेपि विशेषणजकत्वमादाय विशिष्ट तद्व्यपदेश सङ्गतिरिति । शरीरित्वं च स्वजनकादृष्टवत्वसम्बन्धन विवक्षितम् नात ईश्वरसाधारण्यम् । (२) तस्मै प्रसिद्धायेति प्राचां व्याख्यां यच्छन्दाकाानुपपतेरुपेक्ष्याह । तस्मै इत्यादि । (१) आदिमा साधर्म्या दायो लाभः कयो जयः । ·
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy