SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५४ आत्मतत्त्वविवेकः कल्पलता । स्मिन् काले यत् सम्बध्यते स एव तस्य काल इत्यर्थः । प्रथमप्रकरणार्थप्रपञ्चोऽयम् ॥ अपि च यदा तदेति ( १ ) स्थाने यत्र तत्रेति प्रक्षिप्य तयोरेव प्रसङ्गतद्विपर्यययोः को दोषः । दीधितिटिप्पणी । मूले यदा तदेत्युपेक्ष्येति विशेषणबाहुल्यभयादुक्तम्, वस्तुत पतरसस्वेपि प्रकृतस्य क्षणिकबीजनानात्वस्य निर्वाहात् ॥ कल्पलता । 1 , परस्मै यद्विरोधदानाय, तमिदानी (२) माह | अपि चेति । क्षेत्रपतितं बीजं यदि तस्मिन्नेव काले कुशलेवक्कुरजननसमर्थं स्यात् तदा ( ३ )ङ्कुरं जनयेत् न तु जनयति, तस्मान्न तदा तत्समर्थ ( ४ ) मिति क्षणिकमपि सामर्थ्यासामर्थ्य लक्षणविरुद्धधर्मसंसर्गेण भिन्न स्यादिति प्रघट्टकार्थः ॥ न कश्चिदिति चेत्, तर्हि देशाद्वैतं वा कारणभेदो वा दीधितिः । तत्यादि । बीजादेरे कस्मिन् देश इव देशान्तरेऽप्यङ्कुरादिजननसामर्थ्यं तत्राप्यङ्कुरादिजननात् सर्वेषां देशानां सर्वकार्यं वच्वरू पमद्वैतमापद्येत, तथा च कार्याणां भिन्नकालाशेषदेश (५)वृत्तित्वेदीधितिटिप्पणी । सामर्थ्य, स्वीक्रियमाणे । अभेदरूपमद्वैतं बाधितमत आह । सर्व (१) तदेत्यस्य - पुण० पु० पा० । तदेत्युपेक्ष्य ( तत्थाने) इति टिप्पणीकृन्मतः पाठः । (२) तदिदानी - पुण० पु० पा० । (३) तत्रा - पुण० पु० पा० । ( ४ ) तत्र समर्थ - पुण० पु० पा० । ( ५ ) देशारोप - कलि० मु० पु० पा०|
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy