SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०४ आत्मतस्वधिवेकः कल्पलता । पक्षबाधकाभावेपि स्वभावस्वो (१) १पत्तौ किं तदुप न्यासेनेत्यर्थः ॥ विशेषस्य विशेषं प्रति प्रयोजक ( २ ) वाच्च । तथाहि (३), कार्यगतमङ्कुरत्वं प्रति बीजत्वस्याप्रयोजकत्वेऽबीजादपि तदु (४) त्पत्तिप्रसङ्गः । दीधितिः । अप्रयोजकत्वे अङ्कुरत्वावच्छिन्नकार्यताप्रतियोगिककारणतावच्छेदकत्वे । अबीजादपीति । न च वैयधिकरण्यम्, इष्टापत्निश्च, बाजभिन्न (५) धरण्यादेस्तदुत्पादादिति वाच्यम् । अङ्कुरत्वं यदि जातित्वे जन्यतावच्छेदकत्वे वा सति बीजमात्रवृत्तिधर्मावि च्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं न स्यात्, बीजाजन्यवृत्ति ( ६ ) स्यात् बीजासमवहित सामग्रीजन्यवृत्तिर्वा (७) स्यादि - त्यत्र तात्पर्यात् । अङ्कुरत्वं यदि बीजमात्रवृत्तिधर्मावच्छिन्नकारणताप्रतियोगिक कार्यतावच्छेदकं न स्यात्, अङ्कुरमात्रवृत्तिजा तिर्न स्वादित्यत्र तात्पर्यमित्यन्ये ॥ दीधितिटिप्पणी । परमते जात्यनंङ्गीकारात् अतयावृत्तेरेव जन्यतावच्छेदकस्वाङ्गीकारादाह । जन्यतेति । अजन्यवृत्तितयापि साध्यपर्यवसानेबीजादपीत्यादेर्न सिद्धिरत आह । बीजासमवहितेति । अबीजादपीत्यादेरपदार्थव्याख्यानमेव अन्येतु ( ८ ) मतेऽस्वरसः ॥ (१) स्वभावो -- पुण० पु० पा० । (२) प्रति हेतु - पाठः । (३) तथा च - पाठः । ( ४ ) Sबीजादु - पाठः । (५) बीजान्य-पाठः (६) बीजजन्यान्यवृत्ति - कलि० मु० पु० पा० । (७) जन्यवृत्ति वा - पा० २ पु० । ( ८ ) अत्र तुकारश्चिन्त्यः, दीधितावभावात् अन्येषामिति पाठः समीचीनः । ·
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy