SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ द्वितीयलहरी समलंकृतमध्यभागया हेममय्या मेखलया समालिंगितावलग्नं समुद्तहालाहलोभयपाईकन्दलितया धवलपृथुलबुद्दमालया समावेष्टितमध्यं मथनकालिकं दुग्धाब्धिमिवागुल्फासक्तेन भुजगराजनिर्मोकनिर्मलेन चामीकरतंतुरचितपत्रभंगतरंगपर्यंतेन कौशेयचंडातकेन मंडितोरुदंडं तनुतरेण सर्षपप्रमितभासुरहीरमणिमयेन वलयेन अंचितदक्षिणचरणं मृदुलतरपादपीठप्रतिष्ठापितवामपादं नंदकुमारकरतलमिव धृतलंबमानगोस्तनं कौशिकयज्ञवाटमिव प्रतिभटविग्रहभयानकसुबाई, हिमांशुमिव नक्षत्रमालामनोहरं समीकनिकटदेशमिव कटकपरिष्कृतं नंदनवनमिव हरिचंदनांचितं, वसंतमिव तिलकोपकंठपरिभ्रमअमरकं चक्रवर्तिनमपि कंचुकिनं चारुवक्त्रमपश्यत् । दृष्ट्वा च कृतांजलिपुटः स विभीतको देव ! सर्वेऽपि भूवलमाः निजवाहनाधिरूढाः भवदागमनमेव प्रतिपालयन्ति । पारियात्रकनामा गजराजोऽपि द्वारि सज्जस्तिष्ठति । धामनिधिरपि देवस्य यात्रोत्सवदिदृक्षयेव निजकरधवलीकृतांबरभासुरः तारापथमधिरूढः इति सप्रश्रयं सगम्भीरं न्यवेदयत् । तदवकर्ण्य चारुवक्त्रो मरुन्मालमवलोक्य किमु यामो राजधानीप्रवेशायति पृष्ट्वा तेनाभ्यनुज्ञातश्च समुत्थायासनात्पार्थवर्तिनं मलयवातमादिदेश । तथा कर्तव्यं भवता यथा च यात्रोत्सवावसरेऽस्मज्जननी शुभ्रकौशेयावगुंण्ठितां शिबिकां समधिरूढा पश्चादनुव्रजेत् । सोऽपि पापीयान्वृषस्कंधः चरमांगनिबद्धबाहुयुगलः चरणाभ्यामेवास्मत्पुरतः समागच्छेत् । इति । आदिश्य च पटनिकेतनान्निर्गत्य द्वारि स्थितं समुत्कीर्णनक्षत्रेशचित्रभानुचित्रेण विचित्रपत्रभङ्गविच्छरितेन कनकविततफलकेनाच्छादितविशालललाटदेशं सिंदूरालिखितलताविशेषपरिमंडितगंडमंडलं कर्णतालचाल्यमानावचूलनकलापं स्कंधदेशादापादमांदोलितपृथुलमुक्ताफलकलापं कर्णमूलतलनिहितनिशिततपनीयांकुशं, कलधौतशृंखलालंकृतग्रीवं, सुवर्णोत्कीर्णकंठीरववदनप्रांतेन स्थूलतरेणात्यायतेन पट्टमयेन बंधूककुसुमरक्तेन
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy