SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वितीयलहरी ____67 तत्सुकुमारशरीरस्पर्शकन्दलितपुलकनिकरानसकृदपवारयन्तीभिः कपोलफलकोद्वमत्स्वेदकणिकाश्चेलांचलेनाभीक्ष्णमपनयन्तीभिस्स्मरपराधीनाभिः कृच्छ्रेण मिया च स्वायत्तीकृतहृदयाभिः सावधानमलंकुर्वतीभिस्ताभिर्वारसुन्दरीभिः समलंकृतो राज्यलक्ष्मीपाणिग्रहणायावतीर्णः पुंडरीकाक्ष इवाराजत। मरुन्मालस्तु कुमार ! क ते तपखिनी जननी । या च निलिंपधुनीव वनाध्वनीना पावनीकृतवनीतटावनी रत्नगर्भव भूपालपालिता निजोदरधृतनायकरत्ना च कुंतीव पतिविरहासहिष्णुतया परित्यक्तराज्यसुखा, धर्मपथानुगार्जुनभीमव्रतैकताना च । बलवती मे तदिदृक्षेति पप्रच्छ । पृष्टश्च विसृष्टविष्टरश्चारुवक्त्रः प्रविश्य मरुन्मालेन समं मातृपटकुटीरं कृतप्रणामोऽम्ब ! अस्मत्कुलयोगक्षेमदत्तदृष्टिरमात्यवरिष्ठो भवद्दिदृक्षयायातः इत्यवदत् । वरमालिनी मरुन्मालमालोक्य लोचनयुगलगलदमिताश्रुसलिलक्षालितकपोलफलका किमपि किमपि गदितुकामापि दुःखभरनिरुद्धाक्षरा विलापमेव सल्लापपदे समभिषिचंती प्रणिपातमात्रदर्शितादरा धरातलदत्तदृष्टिः तस्थौ। मरुन्मालस्तावदेनामीदृशी निरीक्ष्य शोकभराभिभूतोऽप्यपरित्यक्तपुरुषस्वभावो दमितामितदुःखतया कंठतलदम्यमानाक्षरः कथं कथमप्यम्ब ! यद्यपि वाचाप्यवर्णनीयं दुःखमनुभूतवती भवती । तथाप्यधुना अभिधीयमानमवधारय मदीयं वचनम् । इह जगति लब्धजन्मा कोऽपि निरंतरं सुखपरंपरां नैवानुभवति । किंचानुभूयमानं तदपि दुःखसंवलितमेव । यदिह निरंतरं चिरंतनसुकृतविशेषाद्विषयबृन्दमनुभवति कोऽपि सुखमिति धिया कृतामितसुकृतः कृती निरतिशयशर्मनिवेशं सौदामनीसमानतनुकांतिभिस्सुरकांताभिः कांततरं त्रिदशालयमितः प्रयातो वाचामगोचरं दिव्यमनुभवन्नपि विषयसुखं क्षीणपुण्योऽहं पुनरपि प्रवेक्ष्यामि मर्त्यलोकमेव इंतेति चिंतयन्निरंतरं ततोऽप्युत्तममदृष्टचरं विषयव्रातमितरानु
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy