SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथमलहरी सरोरुहान्सभास्ताराननुमोदमानश्शिरसैव कटाक्षप्रसरणेनैवानंदयन्नुदयगिरिशिखरं दिवाकर इव रत्नमयं सिंहासनमारुरोह । अधिरूढे च तस्मित्राजनि वारसुन्दरीकरारविन्दवीज्यमानविशदचामरकलापे प्रणिपतदनेकावनीपतिमकुटमालामणिरुचिनीराजितचरणकमलयुगले वीणादिविविधानवद्यवाद्यसंमोदितमानसे, प्रविश्य च सभां द्वारपालः प्रणिपत्य सविनयं देव ! मखप्रियो नाम तपोधनश्चतुर्मिरतेवासिभिस्सम देवदिदृक्षया द्वारि तिष्ठति । एतदवकर्ण्य देवः प्रमाणमिति अभिधाय विरराम । तत्क्षणमेव सभ्यैस्सममुत्थाय गत्वा च नरपतिद्वारदेश प्रह्वभावेनाबद्धपिंगजटमानाभिलम्बमानकूर्चकलापमावेष्टितकक्षतलनिक्षिप्तकृष्णाजिनं दर्भपवित्रसनाथानामिकांगुलिना दक्षिणहस्तेन गृहीतकमंडलुमक्षमालावेष्टितमणिबंधेन वामपाणिना विधृतयोगदंडं आजानुचीरचेलाबद्धकच्छं द्वादशोर्ध्वपुंड्रमंडलधिकतदंडधरदंडभयं प्रवयसं तेजसा तिरस्कृतवैश्वानरं लंबमानपाटलजटैः कृष्णाजिनपरिधाननिरन्तरामायाभ्यसनश्रमकृशतनुयष्टिभिर्मूर्तिमद्धिविनयैरिव चतुर्मिश्शिष्यैः परिवृतं तं मखप्रियं नमस्कृत्य मुनिवरं नीत्वा च सभाभ्यंतरं ब्रुस्याच्छादिते कनकपीठे समुपवेश्य च यथाविधि समभ्यपूजयत् । ततश्च तेन विनयाभिरामेण नरपतिना अपि कुशलं ? कचिनिर्विघ्नं तपः ? इति कृतानुयोगो योगीशस्सभ्येषु तद्भाषितशुश्रूषया समधिगतेषु जोषंभावं गभीरया गिरा भो ! राजन् ! त्वयि परिपालयति विश्वम्भरां सर्वमपि सम्यगस्माकं प्रचलत्येव । तथापि चण्डदंष्ट्रो नाम चण्डपराक्रमः कन्यादो मदाश्रमस्यानतिदूदरे पर्यटन्नसकृदभिपत्य तपोविघ्नमाचरति । निरन्तरायं तपः कर्तुं नैव शक्नुमः। तदधुना भवतैव स निहन्तव्य इति व्याहृत्य निरगच्छत्समांकणात् । तदनु स जीवसेनस्सचिवायत्तीकृतभुवनमारः करकमलकृतकरवालो वाजिवालचामरप्रकटितराजभावः समुदंडकेतुदंडकोटिचलपटपरिमंडितं
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy