SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ ॥ शुभमस्तु ॥ श्रीमते रामानुजाय नमः ॥ श्रीमते हयग्रीवाय नमः ॥ ॥ जयन्तिका ॥ श्वेतं यस्य शरीरं निवसनवसनासनानि च सितानि । सोऽयं मनसि रमेशो निवसतु सततं तुरङ्गवदनो मे ॥ १ ॥ नारायणार्यतनयो यदुशैलवासी श्रीशिंगरार्यविदुषस्सुकवेश्च पौत्रः । लेभे च वेंकटगुरोस्स्वपितृव्यवर्यात् विद्याः कवेर्व कुलभूषणनामको यः ॥ २ ॥ अष्टादशाब्ददेश्यः सोऽहं गद्य प्रबंधरचनायां । कुतुकी हन्त ! नितान्तं प्रौढकवीनां यशो लिप्सुः ॥ ३ ॥ शृङ्गारवीरकरुणाद्भुतरौद्रहास्यबीभत्सशान्तरसमिश्रितमुच्चभावम् । नव्यं तनोमि सुमनोहृदयातिसेव्यं काव्यं मनोज्ञपरिकल्पितवस्तुभव्यम् ॥ ४ ॥ बाल्ये तावदनेन निर्मितमिदं काव्यं त्विति प्राकृताः ये मात्सर्यविमूढबुद्धिविभवा निन्दन्त्वदृद्वैव ते । बालेनेरितमेतदित्थमिति ये नन्दन्ति सन्तस्सदा तेषामेव मुदः परं पिशुनयन्त्यस्य प्रकर्षाढ्यताम् ॥ ५ ॥ आसीद्विविधकुसुमभरितपरिमळबहुळप्रताननीमंडितारामा अअंकषकेतनालंकृतनिकेतना निजवैभवन्यक्कतसुरनगरी गरीयसी भासुरा अरिभीकरी नाम नगरी ।
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy