SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 194 जयन्तिका मुहुरुत्प्लुत्योत्प्लुत्य करनिकटमागतं भ्रुकुटितभ्रूलतं दंतपंक्तिदष्टजिह्वांचलं किंचिदिव निमोलितलोचनं स्वशिरः प्रसारितेन पाणिना दित्संतमिव दुर्गायै प्राणप्रयाणावसर बहुलीभवदनिर्वचनीयव्यथापरिलुठत्कलेबरतया त्रुटितरक्त सिक्तप्रत्यवयवसक्तशोणकरवीरकुसुमदलं मलयगिरिसानुमिव रक्तचन्दनावलीढं वसंतसमयमिव कबन्धोपकंठप्रकाशमानरक्तोत्पलं तनयमुपरतानां पशूनामुपर्युत्तानशयं निजकरपातित करवालासमग्रनिकृत्तकण्ठतलतया स्तोकमिव लग्नेन प्रमीतमहीतलेशय स्थूललुलायोन्नतपृष्ठदेशादधोलम्बमानेन विगलितोष्णीषतया विलुलितकीलालकलुषित लम्बमानकचकलापेन तिर्यगाकूणितकृष्णकनीनिका भयानकलोचनेन बाष्पधारापरंपराकल्माषितकपोलेन दरविवृतवदनकुहरेणोत्तमांगेनातिबीभत्सदर्शनं किंचिदिव विवृतशिथिलितमुष्टितया करगलितकौक्षेयकत्सरं वक्षस्स्थल निक्षिप्तवामपाणि स्रुतास्रस्रोतस्सिक्तकच्चरवारवाणं शोणितपंकिलतललग्नगुल्फदेशं वल्लभं चोपरतमपश्यत् । दृष्ट्वा च भूताविष्टेव ग्रहग्रस्तेव केनाप्युत्क्षिप्तेव चक्रवात्यया परिघूर्णितेवाशनिपातेन पातितेव गाढांधकारकुहरं प्रविष्टेव वारिपरीवाहावर्तेन भ्रामितेव दावानलज्वालयावलीढेव शोकातिरेकेणोन्मत्तेव हा ! नाथ ! क्कासि ? इति निपत्य वल्लभोपरि नन्वार्यपुत्र ! न जानासि मामागतां जयंतिकाम् ? क्षिप्रमुत्तिष्ठ । मामाभाषय | किन्नु खल्विदम् ? चतुरुदधिमालामेखलाया विश्वंभराया भर्ता भवानिहैवं शेते ? किमुचितं कुंकुमपटीररससमुचितस्य समनुभूतशशोदरलोममृदुलतल्पस्यानल्पभोगानुभवभाजनस्य भवच्छरीरस्य विस्रगंधासह्य पिशितशोणितकलुषितमिदं शयनम् - 2 तदुत्तिष्ठेति मन्दमुन्नमय्य पाणिना लम्बमानं पतिमस्तकं सकबन्धं शाययित्वा च निजोत्संगतले सिञ्चन्ती बाष्पधारासारैर्नतोत्तमांगी पतिमवलोकयन्ती हा ! नाथ ! कोऽयं वेषः ? कथमापतितं ते वैरूप्यम् ? क गतं ते तादृशं सौंदर्यं गांभीर्यं धैर्यं च । कथमापतितमीदृशं दौर्गत्यम् ?
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy