SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अस्य च कवेर्वकुलभूषणस्य आदौ स्वभ्रात्रा सह निबद्धा स्पर्धा भ्रातर्यकरिता भट्टनारायणे पल्लविता विशाखदत्ते शाखायुता भासे कुसुमिता कालिदासे शलाटुतामाप्ता भट्टबाणे फलिता बभूव । बाणानुच्छिष्टतां स्वप्रबन्धस्य ख्यापयतानेन कविना कादम्बरीप्रतिस्पर्धितया जयन्तिका हर्षचरितप्रतिद्वन्द्वितया यदुवंशचरितं च गद्यप्रबन्धद्वयं निरमायि। तत्तद्रसानुगुणसन्दर्भेपूत्कलिकाचूर्णिकादिगद्यवैविध्यं सन्दृब्धम् । हिमाचल, शिवपार्वती-नगरादिवर्णनेष्वस्पृष्टं बाणेन वर्णितम् । कविकाव्यविमर्शकास्सहृदयाः यथायथं कविद्वयस्य चातुर्य नैपुण्यं प्रन्थानां परस्परसंवादञ्च स्वयमेव विमृशन्तु । किञ्च कविद्वयं गद्यद्वयञ्च धनुर्धरौ रामलक्ष्मणाविव निजभुजद्वयशिखरे निवेश्य नन्दत्वित्याशास्महे । इति प्रमोद संवत्सर पुष्यशुद्धद्वादशी स्थिरवासरः 29-12-1990 सदयसहृदय हृदयदयापात्रं श्री बालघन्वि जग्गु सुदर्शनाचार्यः साहित्यवेदान्तविद्वान् विश्रान्त विशिष्टाद्वैतवेदान्तप्राध्यापक: राज्यप्रशस्ति विजेता
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy