SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तृतीयलहरी 111 यज्ञवाटप्रांतपत्रभङ्गतरंगितां रंगवल्ली कथमनेन नयनहतकेन द्रक्ष्यामि ? ननु कल्याणि ! पर्णशालोपांतकल्पितायां उपवनवाटिकायां साक्षात्त्वयैव करकमलविरचितालवालारोपिता दूरानीतकलशसलिलसेचनवर्धिता नवमालिका भवदनवलोकनादितः परं म्लाना भवत्यपुष्पवती। हतैकवारमपि तत्कुसुमैर्नालंकृतस्ते धम्मिल्लः । हा! वत्से ! मयि देवतार्चननिग्ते सभक्ति कुसुमान्यर्पयेत्कावांब ! हा! चारुवक्त्र ! सायकमेकं दयया निपातय । ननु सुतनु ! समुन्नमितपरिकरयोर्ध्वमुखबद्धलंबमानायतरमणीयवेण्या कलशसलिलपरिपूरितोपवनपवनकंपितलतालवालतया श्रमसलिललवकलितलपनकमलया वल्कलांचलविचितव्यजनव्यापारया चञ्चलहृदयया भवत्या श्रमापनोदनाय संमेवितमिदानी कथमिव द्रक्ष्यामि नमेरुतरुतलवेदिकाम् ? न हि दया ने ? मदतीः जराजोर्णाः योषितः पश्य । हा ! दैवहतक ! विरक्तस्य जरत्तरम्य मदृशं रत्नं प्रदर्श्य तत्र प्रेम समुत्पाद्य जहिथ । किमिदमुचितं ते ? कुरु तावदिदानीमपि मह्यमुपकृतिम् । मामप्युररीकुरु । तात ! चारुवक्त्र ! धन्योऽसि । यतो भवदर्थ त्यक्तप्राणामनुप्रयातोऽसि। नाहं तथा। गगनं गलितमिव शिरसि। किं करोमोति बहुधा रुदंतं दोघसत्रं समाश्वामयितुमिव कलापिबर्हकलापपरिष्कृताभिः लंबमानगुंजामंजुलाभिः पिंडोकृतपाटलजटाभिः परिमंडितोत्तमांग नीलशिलींध्रनिचिताभिः प्रचलदिन्द्रगोपमालाभिः निबिडप्ररूढाभिः अलंकृतं घनदिवसमिवातपपर्यटनासितं विशंकटसितस्थासकं ललाटफलकं चन्द्रमंडलमभितः परिवृतांबुधरं गगनमिवोद्रहन्तं अनवरतमपि चळमाणतांबूलरसरंजिताभ्यां श्मश्रुकलापाभ्यामटवीपर्यटनखेदानलपतप्ताभ्यां नासारंध्रद्वयान्निसरद्भयां मूर्ताभ्यां निश्वासाभ्यामिव भयानकं लंबमानस्तंबेरमकुंभमौक्तिककृतकुंडलमंडितश्रवणजाहम् चित्रकायचर्मनिर्मितवर्मालंकृतकायं कुमुदकुवलयकमलजालाच्छादितमिव तटाकं पुंडरीकगंडकादिमृगखंडनशौंडचंडतरकांडपरिमंडितोइंडमंडलाकारकोदंडपरिमंडितभुजदंडं वरा
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy