SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 102 जयन्तिका सुधाधवलिततया प्रसमररुचिरनखरकिरणतया च शारवर्णास्सविभ्रमं सानुनयं सानुरागं च सापांगवीक्षणं च विलासिनीमिर्दीयमानाः नागवल्लीपल्लववीटिकारस्तोकमिव प्रसारितपाणिः परिगृह्य मन्दं चर्वन्सकांचीमणिमालाकलापरणितं समंजीरमंजुलशिंजितं सविभ्रमं ससंगीतं साभिनयं सविस्फारणं सचक्षुरागं सवल्लीभंगुरं नृत्यन्तोनां वारसुन्दरीणां विलोकनेन कदाचिन्मदिरेक्षणागणकटाक्षवीक्षालक्षिततया यमुनानीरपूरजठरवर्तीव मेचककोमलंबलावगुंठित इवांजनलिप्त इव विडंबयन्निव नारायणं कदाचिन्मत्तकाशिनीहासविच्छुरिततया सुरापगापरीवाहपरीत इव कौमुदीजठरप्रविष्ट इव सुधाझरीस्नापित इव धवलतरकाचपंजरांतगत इव कदाचिदनुरागिणीपद्मरागरागराजितया जतुरसस्नापित इव बहिःप्रकटितनिजानुराग इव रक्ताशोकस्तबकांचित इव परिहसन्निवोदयशिखरिशिखरगतं मार्तडमंडलं कदाचिन्मदिरास्वादघूर्णितारुणनयनः स्खलत्पाणिर्मुदंगास्फालनसक्तः कदाचिदक्षक्रीडायां पणीकृतांगनांगसंगसंश्लेषशिथिलांगः अनंगपरतन्त्रः स्वतंत्रो निरंकुशव्यापारदूरीकृतधर्मा ग्राम्यधर्मासक्तः कालमतिवाहयति स्म। ___ एवं स्थिते कदाचिलंबमानमानातीतपिशंगजटाजटिलोत्तमांगोऽधःप्रसमरज्वालामालोऽनल इव कुटिलपिंगलभ्रभ्यां पाटलतरपक्ष्मभ्यां रूक्षेक्षणाभ्यां भयानकः परिधिपरिगताभ्यां युगपदुदिताभ्यामंगारकाभ्यामिव नभोदेशः कक्षतलनिक्षिप्तपवित्रतालपत्रसंभारोंऽसतललंबिततनुतररज्जुनियमितनारिकेलकमंडलुः कृष्णाजिनपरिधानः मौजोमेखलालंकृतावलमः करधृतपलाशदंडः दंडधरभयंकराकारः नाग्नैव प्रकटितात्ममहिमातिशयः महामन्युर्नाम विडंबयन्निव दुर्वाससं तपोधनवटुर्गुरुदक्षिणाभ्यर्थनायाजगाम । आगत्य च नरपतिप्रासादं सद्यस्सरभसं सविनयं च परिजनैः प्रदर्शितमार्गः स महामन्युरवरोधं प्राविशत् । प्रविश्य चागतमात्मानं तृणाय मन्यमानं मानातिरेकात्तमौनं आसवास्वादमदपरिपूर्णिततारकं
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy