SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ १२२ जैनतत्त्वप्रदीपे पञ्चमोऽधिकारः । अथा पूर्वपुद्गलादानोच्छेदनिमित्तभूतसंवरतत्वं लक्ष णविधानाभ्यां प्रतिपाद्यते - आश्रवनिरोधनिमित्तकत्वं संवरस्य लक्षणम् । सद्वेधा, द्रव्यं भावभेदात् । कर्मपुलादानोच्छेदपरिमाणरूपत्वं द्रव्यसंवरस्य ब्लक्षणम् । भवहेतुक्रियात्यागलक्षणपरिणामरूपत्वं भाव संवरस्य लक्षणम् । तत्राश्रवः कर्मप्रदेशविचयाः शुभाशुभलक्षणाः कायांदयस्त्रय इन्द्रियकषायावतक्रियाः पञ्चचतुष्पञ्चपञ्चविंशतिसंख्याकाः, तेषां निरोधो निवारणं संवरः स्मृतः । कर्मोपादन हेतु भूतपरिणामाभावरूपत्वमिति फलितलक्षणं संवरस्य । स च पुनर्देवा, सर्वदेश मेदात् । तत्र सूक्ष्मबादरयोगनिरोधकाले सर्वसंवरः, शेषकाले चारित्रप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवति । अयं भावः- सामायिकादिचारित्रवतां परिस्पन्दवच्चेसत्यपि विदिततत्त्वानां संसारसमुद्रं तरीतुमभिवाच्छतां प्रधान संवराभावेऽपि न्यस्तसमस्तप्रमादस्थानानां देशसंवरः खल्लु समस्त्येवेति प्रतिपादनाय मोच्यते
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy