SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽधिकारः। ७ . शरीरावयवानां पाणिपादादीनामनभृततावस्थापनरूपत्वं कायदुष्पणिधानस्य लक्षणम् ।। . वर्णसंस्काराभावे सति अर्थानचगमरूपत्वं वाग्दुप्रणिधानस्य लक्षणम् । क्रोधलोभद्रोहाऽभिमानादिकार्यव्यासजन्यसंभ्र. मरूपत्वं मनोदुष्प्रणिधानस्य लक्षणम् । सामायिकविषयानुत्साहरूपत्वमनादरस्य लक्षणम् । सामायिकस्य स्मृतावनुपस्थापनरूपत्वं स्मृत्यनुपस्थापनस्य लक्षणम् । आनयनमेप्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपलक्षणा: पञ्चातिचाराः देशावकाशिकस्य भवन्ति ।। संदेशकप्रदानादिना सचित्तादिवस्तूनामानयनपानय. नप्रयोगस्य लक्षणम् । अमिगृहीतदेशव्यतिक्रमभयाद् भृत्यं प्रेष्य त्वया मम गवादिकमानेयम्' इति प्रेरणाकरणं प्रेष्यप्रयोगस्य लक्षणम् । स्वगृहभूप्रदेशविपयकाभिग्रहकृतानन्तरमुत्पन्नप्रयोजनेऽभ्युच्छ्वासितादिकरणेन प्रवोधनरूपत्वं शब्दानुपातस्य लक्षणम् । ___ एवं रीत्या स्वकीयवर्णादिना प्रवोधनरूपत्वं स्वावयवप्रदर्शनद्वारा परागमनसूचकत्वं वा वर्णानुपातस्य लक्ष. णम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy