SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ८६ जैततत्त्वप्रदीपे- . रस्य लक्षणम् । अत्रापि सावद्याहारविषयककृतप्रतिज्ञस्यानामोगादिना प्रवृत्तावतिचार: स्यात् । अर्द्धखिन्न-यवमुद्गगोधमादीनामनाभोगादिना भ. क्षणं दुष्पकाहारस्य लक्षणम् । अनाभोगादिना प्रवृत्तावत्रातिचार: स्यात् । कन्दर्पकौकुच्यमौखर्यसंयुक्ताधिकरणोपभोगाधिकत्वा. समीक्ष्याधिकरणलक्षणाऽतिचारास्तृतीयगुणव्रतस्य भवन्ति। रागोदये सति हास्पयुक्तासभ्यवाक्प्रयोगरूपत्वं कन्दपस्य लक्षणम् । मोहनीयोदये सति हास्ययुक्तासभ्यवाग्व्यापारोपार्जनपूर्वकासभ्यफायव्यापारकरणरूपत्वं कौकुच्यस्य लक्षणम् । ' असंबद्धमलापित्वं मौखर्यस्य लक्षणम् । उदूखलशकटधनूरूपाधिकरणान्तरेण सह मुसलफालयुगशरायधिकरणादीनां संयोगकरणं संयुक्ताधिकरणस्य लक्षणम् । • यावत्लानालङ्कारादिभिर्यस्य प्रयोजनं ततोऽधिकग्रह- . णरूपत्वमुपभोगाधिक्यस्य लक्षणम् । अनालोक्याधिकरणमसमीक्ष्याधिकरणम् । कायवानोदुष्प्रणिधानाऽनादरस्मृत्यनुपस्थानलक्षणाः पञ्चातिचाराः प्रथमशिक्षाव्रतस्य भवन्ति ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy