SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ जनतत्त्वप्रदीपे तश्चांधिकरणं द्विविधम्, द्रव्याधिकरणभावाधिकरण मे' दात् । तत्र द्रव्याधिकरणं दशधा, च्छेदन-दहन-मारण- उपघात-स्नेह-क्षाराम्लानुपयुक्तमनोवाक्कायलक्षणाधिकरण ४८ भेदात् । तदेव च लक्षणद्वारा प्रतिपाद्यते - प्राणिपादादीनां परश्वादिना च्छेदन करणरूपत्वं छेदनाधिकरणस्य लक्षणम् - सचेतनाऽचेतनानां वह्निना दाहरणरूपत्वं दहना saकरणस्य लक्षणम् | सचेतनानां विषादिप्रयोगेण मारणरूपत्वं मारणाधिकरणस्य लक्षणम् । पृथिवीकायादीनामुपघातकरणरूपत्वमुपघाताधिकर णस्य लक्षणम् । घृततैलादिस्नेहेन तेषामेवोपघातकरणरूपत्वं स्नेहाधिकरणस्य लक्षणम् | क्षारेण सकलत्वग्मांसाद्य कर्त्तनरूपत्वं क्षाराधिकरणस्य लक्षणम् । आरनालाद्यम्लेन पृथिवीकायोपघातकरणरूपत्वमम्oाधिकरणस्य लक्षणम् । अनुपयुक्तः सन् मनोवाक्कायादिना यां यां चेष्टां निर्वर्तयति तया तथा कर्म बध्यत इत्येवंरूपत्वमनुपयुक्तमनोवाक्कायलक्षणाधिकरणस्य लक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy