SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् ३६० [ श्र० ५ पा० २ सू० १० - १४ ग्रहणम् । द्वारपाल्या अपत्यं दौवारपालिकः । " रेवत्यादेष्टण ” [३।३।१३४] इति ठण | स्वरमधिकृत्य कृतो ग्रन्थः सौवरः । तदादेरपि । स्वराध्याये भवः सौवराध्यायः । व्यल्कसे भवः वैयल्कसः । स्वस्तीत्याह सौवस्तिकः । तदाहेत्यस्मिन्नर्थ ठरणुक्तः । स्वर्भयं सौम् । “केर्ममात्रे टिखम्" [वा०] इति टिखम् । स्वर्गमनमाह सौवर्गमनिकः । स्वः अध्याय स्वाध्यायः । स्वाध्यायेन चरति सौवाध्यायिकः । श्रचामादेरित्यनुवर्तनादाद्यचः समीपस्य यौवादेशौ स्वशब्दस्यैव । तदादिविधिना सिद्धमिति चेत्, न "स्वशब्देन तदादिविधिरनित्यः " इतीदमेव ज्ञापकम् । तेन स्वपती साधु स्वापतेयमिति । स्पयकृतस्यापत्यं स्फेयकृतः । “कुर्वृष्यन्धकवृणे: " [३।१।१०३] इत्यण् । स्वादुष्यस्येदं सौवादुष्यम् । शुनो विकारः शौवः सङ्कोचः “श्वाश्मचर्मणां संकोचविकारकोशेषु" [ ४|४|१३२] इति टिखम् । शुनो दंष्ट्रा श्वादंष्ट्रा । " श्रन्यस्यापि " [४।३।२३२] इति दीत्वम् । तत्र भवः शौवादी मणिः । तथा शौवाहननम् । स्वस्येदं सौम् । तदादेः स्वग्रामे भवः सौवग्रामिकः । श्रव्यात्मादित्वाह । न्यग्रोधस्य केवलस्य || ५|२|१०|| न्यग्रोधस्य केवलस्य यो यकारस्तस्य ऐयित्ययमादेशो भवति हृति िित परतः । न्यग्रोधस्यायं नैयग्रोधो दण्डः । केवलस्येति किम् ? न्यग्रोधा अस्मिन्देशे सन्ति “बुन्छगुट" [३६] इत्यादि पाटात्कः । टापू “त्यस्थे क्यापी" [ ५|२|५० ] इत्यादित्यम् । न्यग्रोधिकायां भवः न्यायोधिकः ग्रत्र “भस्य हृत्यढे" [वा०] इति पुंवद्भावः प्राप्तः । " न वुहकोड: [४ | ३ | १४६ ] इति प्रतिषेधः तथा न्यग्रोधमूले भवं न्याग्रोधमूलं तृणम् । ऐबेव भवति । ननु न्यग्रोधस्योच्यमानं कथमन्याधिकस्य स्यात् १ तदन्तविधिना । स्येवं नार्थः केवलग्रहणेन न्यग्रोधस्य प्राधान्येनाश्रयणात्तदन्तविन्ध्यभावः । एवं तर्हि तदादिनिवृत्यर्थं केवलग्रहणम् । ग्रन्यत्रेह तदादिविधिरस्तीति ज्ञाप्यते । न्यग्रोधतीति व्युत्पत्तिपक्षे नियमार्थम् । केवलस्यैव । व्युत्पत्तिपक्षे विध्यर्थं सूत्रम् । न मे || ५|२| ११ || मे आयें कर्मव्यतिहारे विशति हृति यदुक्त तन्न भवति । व्यात्युची । व्याक्रोशी । व्यापचोरी वर्तते । "कर्मव्यतिहारे जः " [ २|३|७६ ] इति ञः । “जात् स्त्रियाम्" [४/२/२२] इत्यण् । तस्मिन् प्रतिषेधः । स्वागतादेः ||१२|| स्वागतादेश्च यदुक्तं तन्न भवति । स्वागतेन चरति स्वागतिकः । स्वध्वरस्यापत्यं स्वाधरिः । स्वङ्गः स्वाङ्गिः । व्यङ्गः व्याङ्गिः । व्यङः व्याडि । व्यवहारेण चरति व्यावहारिकः । व्यवहारशब्दो न कर्मव्यतिहार एव वर्तते किन्तर्हि लोकवृत्तेऽपि । ततः पाठः । स्वपतौ साधु स्वापतेयम् । श्वादेरावतः || २|१३|| श्वादेगौरिकादौ यदुक्त तन्न भवति । श्रतश्च य उत्पद्यते तस्मिंश्च । चकारमन्तरेणापि समुच्चयो गम्यते । यथा पृथिव्यापस्तेजोवायुराकाशमिति । श्वाभस्त्रिः । श्वादष्ट्रिः । श्वा करिणः । श्वाशीर्पिः । श्वागणिकः । श्वेव भस्त्रास्य, शुन इव दंष्ट्राऽस्य, शुन इव कर्णावस्य शुन इव शिरोऽस्य । स्वशिरसोऽपत्यं ब्राह्वादिपाठादिञ् । श्रजादौ हृति शिरसः शीर्पादेश उपसङ्ख्यानेन । इकारदीलं व्यपदेशवद्भावेन | तो य उत्पद्यते तत्रापि प्रतिषेधः । श्वामस्त्रेरिटं श्वाभस्त्रम् । श्वाकर्णम् | "इज: " [३] इत्यण् । श्वन्शब्दो द्वारादिषु पठ्यते । तस्य तदादिविधिः श्रस्तीति इदमेव प्रतिपेधवचनं ज्ञापकम् । श्वादेरिति किम् ? श्वभिश्चरति शौविकः । केवलस्य न प्रतिषेधः "नोऽषु सो हृति" [४|४|१३०] इति टिम् । आयत इति किम् ? श्वाभस्त्रस्येदं शौत्राभस्त्रम् । शौवादंष्ट्रो मणिः । वा पदान्तस्य || ५|२|१४|| श्वादेगः पदशब्दान्तस्य यदुक्त तन्न भवति वा । किमुक्तम् ? द्वारादौ श्वशब्दस्य तदादिविधिना श्रयुक्तः । श्वापदानां समूहः श्वापदम् । शौवापदम् । शुन इव पदस्य श्वापदः । “अन्यस्यापि” [४।३।२३२] इति दीत्वम् । इकारादौ पूर्वनिर्णयेन नित्यः प्रतिषेधः । श्वापदेन चरति श्वाप दिकः । ग्रन्तग्रहणं न कर्तव्यम् । “येनालि विधिस्तदन्तायोः " [३।११६७ ] इति स्वयमेव पदान्तस्य श्वादेरित्यनु For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy