SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० ५ सू० १५८-१६२] महावृत्तिसहितम् तव मम विपये प्रापणार्थम् । चकारो मविध्यनुकर्षणार्थः । ननु तवममाद्यादेशापवादादेव मावधित्वं लब्धम् । नैवं शक्यम् । विभक्त्या उपि कृते तवममायादेशाभावात्कृत्स्नयोयुष्मदस्मदोः स्थाने स्यात्। ननु बहिरंग उत्रित्युक्तम् । इदमेव च शब्दोपादानं ज्ञापकम् “अन्तरङ्गानपि विधीन बहिरङ्ग उब् बाधते" [प०] तेन यूयं पुत्रा यस्य स युष्मत्पुत्रः यूयादेशाभावः । गोमान् प्रियो यस्येति गोमत्प्रियः इत्यादौ नुमादीनामभावः सिद्धः । त्रिचतुरोः स्त्रियां तिसृचतसृ ॥५॥१५८॥ गोर्विभक्त्यां परतः त्रि चतुर् इत्येतयोः स्त्रियां वर्तमानयोस्तिसृ चतस इत्येतावादेशौ भवतः। तिसृभिः । चतसृभिः । तिसृषु । चतसृषु | स्त्रियामित्येतत् त्रिचतुरोरेव श्रु तत्वाद्विशेषणं किमर्थम् ? यदा त्रिचतुरो स्त्रियां वर्तते समुदायः पुंसि नपुंसके वा तदापि तदन्तविधिना तिसुचतसृभावो यथा स्यात् । प्रियतिसा । प्रियतिस्रो। प्रियतिनः । प्रियतिसृ कुलम् । प्रियतिसृणी । प्रियतसणि । यदा तु त्रिचतुरौ पुंसि नपुंसके वा वतते समुदायः स्त्रियां तदा न भवति । प्रियाः त्रयः प्रियाणि त्रीणि वा यस्याः स प्रियत्रिः। एवं प्रियचत्वाः। स्त्रियामिति किम् ? त्रयश्चत्वारः । त्रीणि । चत्वारि । चकारोऽनुक्तसमुच्चयार्थोऽनुवर्तते । तेन "कचित्केऽपि खौ” । तिसृका ग्रामः । रोऽच्युः ॥५॥१५६॥ तिसृ चतसृ इत्येतयोः ऋकारस्य रेफादेशो भवत्यचि परतः । तिसस्तिष्ठन्ति । तिसः पश्य । चतरस्तिष्ठन्ति । चतस्रः पश्य । नियतिस्रो भयम् । “ऋतो डिधे" [५।२।१०५] इत्येप शसि "सुटि पूर्वस्वम्" [४।३।८६] दीत्वं इसिङसोः “ऋत उत्ः" [४।३।६८] इति उः प्रसज्येत । ननु मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्" [40]] इति ऋतो डिधे इत्येपः कथं बाधा "स्पर्द्ध परम् [११२।१०] इति परशब्दस्योष्टवाचित्वारे फादेशः इण्टा+आवेप । प्रियतिसरि । अथ प्रियतिस्त्र इत्यादी कासान्तः कस्मान्न भवति । समुदायविभक्त्यां तिसभाव इति तयाऽन्तो व्याप्त इति न कप । अचीति किम् ? तिसृभिः । तिसणी। नन्वामि परत्वाने फामाप्नोति । नैवम् । “नाम्यतिसूचतस्" [४] ४।३] इति शापकान्नुटि नुम्रभावी न स्तः । उरिति किम् ? “अन्तेऽलः" [२११४९] इत्येव सिद्धम् । उरित्यक्रियमाणे “येन नाप्राप्त" न्यायेन तिसृचतभभावस्थापवादो रेफः स्यात् । जराया चाऽसङ॥५१६०॥ जराया अचि परतो वा असङादेशो भवति । जरसौ। जरे । जरसः । जरसम । जरसा । जरया । आमि परत्वान्नुडोऽसङ। जरसाम् । जराणाम् । नुमः परत्वादसः। अतिजरांसि तपासीति । प्रादेशे "एकदेशविकृतमनन्यवद्" [१०] इति । अतिजरसं कुलं पश्येत्यात्रामं विभक्तीमपेक्ष्यासरः । अनकारान्तो जातः । स तस्योपो निमित्तं न भवति सन्निपातलक्षणत्वात् । अतिजरं तिष्ठति । अतिजरेरित्यत्र सन्निपातलक्षणावम्भावैत्भावौ। तेन नाऽसङ्। अनित्यैषा परिभाषेति केचित्ते न अतिजरसं तिष्ठति । अतिजरसैरिति । - त्यदादेरः ॥५॥१॥२६॥ अचीति निवृत्तम् । त्यदादीनामकारादेशो भवति विभक्त्याम् । स्यः । त्यौ । ये । सः । तौ । ते । यः । यौ। एषः । एतौ । इमौ । इमे । अमू । अमी । द्वौ। द्वाभ्याम् । त्यदादिषु स्त्रीत्वविवक्षायां "भाविनि भूतवदुपचारात्" इति स्वादिमपेक्ष्यात्वे कृते टाप् । तेन स्या सेत्यादिसिद्धम् । अत्यविधि प्रति द्विपयन्तास्त्यदादयः । “भवतष्ठएछसी" ||२|११|इति निदंशात् । तन भवान् । भवन्तौ । भवन्तः। गृह्यमाणेन त्यदादिना विभक्ती विशेष्यते । तेनाप्रधानानामत्त्वं न भवति । अतितदः । प्राधान्ये तु शोभनः सः सुसः । अतिसः । परमसः । सञ्ज्ञाशब्दानां तु त्यदादित्वाभावः सर्वनामान्तर्गणत्वात्त्यदादेः।। किमः कः ॥५॥१६१६२॥ किमित्येतस्य क इत्ययमादेशो भवति विभक्त्यां परतः । कः। की। के। किमोऽकार एवानुवर्त्यः । पूर्वेण मकारस्यानेन “अनन्त्यविकारेऽन्त्यसदेशस्य" [प०] इतीकारस्यात्ये पररूपत्वे च कृते सिद्धमिति चेत् न, पूर्वेण सत्यपि मकारस्यात्वसम्भवे इकारस्यात्वं बाधकमेव स्यात् । तदानमिव दधिदानस्य । किन्च कुत्साद्यर्थे साकेऽपि यथा स्यादिति कादेशः । विभक्त्यामित्येव । किं राजा योन रक्षति । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy