________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
जैनेन्द्र-व्याकरणम्
[ अ० ५ पा० १ सू० ८४ - ६१
व्यवधानम् । नन्वराणीदित्यत्रापि राकारेण व्यवधानमस्ति नैवं “येन नाव्यवधानं तेन व्यवहितेऽपि " [१०] इति वचनप्रामाण्यात् । हलन्तानुवृत्तेरेकेण हला व्यवधानेऽप्यसङ्घातेन व्यवधाने न भवति । यद्येवं घेरिति व्यर्थम् । प्रतक्षीदित्यत्र समुदायेन व्यवधानात् वर्णसङ्घातेन व्यवधानं भवति । न च न भवतीति परिभाषाऽऽश्रयणाददोषः ।
वलाद्यगस्येट् ||५|११८४ ॥ वलादेगस्य इडागमो भवति । लविता । लवितम् । लवितव्यम् । वलादेरिति किम् ? लव्यम् । लवनीयम् । अगस्येति किम् ? श्रास्ते । शेते । ननु " 'ऋत इद्धोः " (५|१|७४) इत्यनुवर्तमाने धोः संशब्दनेन विहितस्य वलादेरिद्भवतीत्युच्यमाने " रुदादेगें" [५|१|१३५ ] इत्यत्र रुदादेरेव गे नान्यस्येति रुद्रादीनामुदात्त पाठसामर्थ्येनेष्यवधारणात् स्वयमेवागस्येद्भविष्यतीति व्यर्थमगग्रहणम् । नैत्रं प्रतिपत्तिगौरवं स्यात् । जुगुप्सत इत्यादौ घोः संशब्दनेन सन्विहित इतीण न भवति ।
ग्रहो लिटि दी ||५|१८|| ग्रह उत्तरस्य इटोऽलिटि दीर्भवति । वान्त इडनुवर्तमानोऽर्थवशात्तया विपरिणमते । ग्रहीता । ग्रहीतुम् । ग्रहीतव्यम् । अलिटीति किम् ? जग्रहिम । " लिडस्फात्कित्" [१1१1७६] “प्रहिज्या” [४।२।१२] आादिना जिः । यङन्तस्य कस्माद्दीनं भवति । जरीग्रहिता । जरीग्रहितुम् । तन्न ग्रहेयों विहित इट् तस्य दीर्भवतीति विहितविशेषणात् । " प्रकृतिग्रहणे यबन्तस्य ग्रहणम्" [ ५० ] कस्मान्न भवति ? "एकाचोऽनुदात्तात् " [५/१/११५] इति सिंहावलोकनेनैकाग्रहणं सम्बध्यते । तेन ग्रहरेकाचः कार्य यन्तस्य न भवति । ईटि कृते महीदित्यादौ " ईटीटः " [ ४/४/२० ] इत्यादिकं दीवे कथमिद कार्यम ? स्थानिचद्भावात् । “अनल्विधौ” [ १|१|५६ ] इति कथं न प्रतिषेधः ? नायमविधिरागमविधिरयम् । श्रवकृतस्यैये ग्रहणाभावात् ग्राहिताग्राहियते इत्यादौ त्रिवदिटो दीर्न ।
[ 'वृतो वा || ५ | ११८६६ ॥ न लिङि || ५|१| ८७॥ ]
सौ मे || मरे सो परतः वृत इये दीर्न भवति । प्रावारिष्टाम् । प्रावारिपुः । आस्तारिष्टाम् । आस्तारिपुः । “मिप्यस्थ" [ २४८२ ] इत्यादिना तसस्ताम् । " वलाद्यगस्येट् ” [ ४|१८४ ] मेइति किम् ? प्रारिष्ट । प्रावरीष्ट । “लिङ स्योदें" [५।११०] इतीट् ।
सनी वा ॥५१॥८६॥ सनि परत वृत इड् वा भवति । वर्धते । विवरिष । विवरीषते । प्रावृते । प्राविवरिषते । प्राविवरीपते । प्रावुवूषति । प्राविवरिषति । प्राचिवरीपति । श्रतितीर्षति । आतिस्तरिति । ग्रातिरतरीप्रति । "सनि ग्रहगुहश्व" [ ५।१।११८ ] इतीट् प्रतिषेधे प्राते पक्षे इट् । चिकीर्षतीत्यादौ दीवे ऋतो लाक्षणिकत्वादिडभावः ।
I
लिङ्स्योदे ॥ ५६॥६०॥ वृतः परयोः लिङ सि इत्येतयोर्दे वा इड्भवति । द इति सेरेव विशेषणम् । लिङ मविषये यासुट सति वलादित्वादिडभावः । वृषीष्ट । वरिषीष्ट । प्रावृषीष्ट । प्रावरिपीष्ट । आस्तीपष्ट । प्रास्तरिषीष्ट । " न लिङि ” [ ५1१1८७ ] इति दीत्वाभावः । अनिट् पक्षे “उ: " [१|१|८६ ] इति कित्त्वम् । सो
वृत | अवरिष्ट | अवरीष्ट । प्रावृत । प्रावरिष्ट । प्रावरीष्ट । श्रास्तीर्षाताम् । श्रास्तरिपाताम् । ग्रास्तरी पाताम् । इट" वृतो वा” [५|१|८६] इति दीत्वम् । प्रवृतेत्यादौ " प्राद्गो: [ ५।३।४५ ] इति सेः खम् । दइति किम् ? श्रास्तारिष्टाम् । श्रास्तारिषुः । "सौ मे” [५] इति दीत्वाभावः । बलाद्यगस्येटो विकल्पोऽयम् ।
स्फाहतोऽसुटः || ५|१|६१ ॥ स्फादसुटः परो य ऋकारस्तदन्तात् परयोर्लिङस्यो वा इड् भवति । स्मृषीष्ट । स्मरिषीष्ट । वृपीष्ट । ध्वरिपीष्ट । अस्मृषाताम् । अस्मरिपाताम् । “ङ” [ ११२२७ ] दः । स्फादिति किम् ? कृपीष्ट | अकृपत । ऋत इत इति किम् ? च्योषीष्ट । श्रच्योष्ट । असुर इति किम् ? संस्कृपीष्ट । १. प्रतिषु [ ] कोष्टकान्तर्गतयोः सूत्रयोर्वृतिर्नोपलब्धाऽतः जैनेन्द्रपञ्चाध्यायीमनुसृत्य सूत्र यमत्र निर्दिष्टम् ।
For Private And Personal Use Only