SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ० ५ पा० १ सू०७१-८३ ] महावृत्तिसहितम् ऋदुशनस्पुरुदंशोऽनेहसाम् ॥५॥११७१।। ऋकारान्तानाम उशनस् , पुरुदेशस् , अनेहस इत्येतेषां चानङादेशो भवति सावको परतः । कर्ता। पिता । माता। उशना। पुरुदंशा। नेहा । अकाविति किम ! हे कर्तः। हे मातः । हे पितः । हे उशनः । हे पुरुदंशः। हे अनेहः । "उशनसः कौ रूप्यमेके वाञ्छन्ति । नान्तमदन्तं सान्तमिनि । कथं नान्तता । अकावित्यनुवर्तते। स च नीषदर्थ द्रष्टव्यः । तेन क्वचिकावयनङ् । हे उशनन् । तथा “नखं मृदन्तस्याको" [५/३।३०] इत्यत्रापि नत्रीषदर्थ एव । तेन कावपि नखम् । हे उरान । यदा अनङ् न भवति तदा हे उशनः । ऋदिति तपरकरणमसन्देहार्थम् । “ग निगरणे" [धा०] इत्याद्यनुकरगनिवृत्त्यर्थं च गृरिति मया श्रुतः । चतुरनडुहोची ॥१॥७२॥ चतुर् अनडुह् इत्येतयोरुकारस्य वा इत्ययमादेशो भवति धे परतः । अनडुह इत्यत्र "द्वन्द्वाच्चुदहपो रार्थे" [।१०८] इत्यः सान्तोऽन्यथाऽन्तर्वतिविभक्ति कृतपदाश्रयो हकारस्य दः स्यात् । चत्वारि । चत्वारः । अनड्वान् । अनड़वाहो । अनड्वाहः। गोः प्राधान्यात्तदन्तविधिरपि । चतुरडुहन्तस्य गोर्वाऽऽदेशो भवत्यभिसंबन्धात् । केवलयोस्तु व्यपदेशिवद्भावः । प्रियचत्वारि । प्रियचत्वारः । प्रियानड्वान् । प्रियान इबाही । प्रियानड्वाहः । अनडुह, अनड्वाह, इति गौरादावुभयग्रहणात् अनडुही। अनड्वाही । इद्द क्रोष्ट्र क्रोष्टुशब्दा एकार्थी ऋदुदन्तौ त्तस्तत्र धे स्त्रियां च क्रोष्टशब्दस्यैव प्रयोगः-क्रोष्टा । क्रोप्यरो । क्रोष्टारः । कोष्टारम् । क्रोप्टारौ । क्रोष्ट्री । भादिष्वजादिषूभयोः । क्रोष्ट्रा । क्रोष्टुना । क्रोष्ट्रे । क्रोप्टवे । क्रोप्टुः । क्रोटोः । क्रोष्ट्रोः । क्रोष्ट्योः । क्रोष्टरि । क्रोष्टौ । को शस्यामि हलादौ च कोटुशब्दस्यैव । हे कोप्टो । कोष्टून् । कोष्टुभ्याम् । क्रोष्टुभिः । क्रोष्टुभ्यः । क्रोष्ट्रनाम् । क्रोष्टषु । अभिधानलक्षणाः कृद्धत्साः । "सितनिगमिमसिशच्यविधाञ्क्रुशिभ्यस्तुः" [उ० सू०] । वः कौ ॥४७३॥ चतुरनडुहोरुकारस्य व इत्ययमादेशो भवति को परतः । हे अतिचत्वः । हे अनड्वन् । वाऽऽदेशापवादोऽयम् । __ ऋत इद्धोः ॥५॥१७॥ ऋकारान्तस्य धोर्गोरिकारादेशो भवति । किरति । गिरति । अास्तीर्णः । विस्तीर्णः । विकीर्यते । स्तृञः क्ते वृतः “सनीड़ वा" [५/१।८६] इति विभापित इट् । “यस्य वा" [५/१।१२१] इति प्रतिषेधः । घोरिति किम् ? मातृणाम् । पितृणाम् । ननु लाक्षणिकं तदत्र कथं प्राप्तिाक्षणिकस्याप्यत्र ग्रहणमिप्यते। चिकीर्पिता। [उंङः ॥५॥११७५॥ पुवादुप् ॥५११७६॥ सावेम्मे ॥१७॥ हलामचः ॥५॥१७॥ ब्रजवदल्नोऽतः ॥५॥१॥७६॥ नेटि ॥१८०॥ हम्यतणश्वसजागृणिश्व्येदिताम् ॥१॥८१॥ ] बोर्गुञः ॥५॥११८२॥ उणु इडाद सौ मपरे वा ऐन्भवति । प्राप्ते विकल्पोऽयम् । प्रौर्णावीत् । प्रोणबीन् । यदा तु "इड्विजः” [१।११७६] इत्यनुवर्तमाने “वोर्णोः” [१७] इति ङित्वम् , तदा एवैयौः प्रतिषेधः । प्रौणु बीत । अतोऽनादयः ॥५॥१॥३॥ अनादेरतो घेवां ऐब्भवति इडादौ सौ मपरे । अकणीत् । अकाणीत् । अरणीत् । अरागीत् । अत इति किम् ? अदेवीत् । असेवीत् । तथा न्यकुटीत् । न्यपुटीत । ननु चात्र कुटादित्यारित्वे सत्येप्प्रतिषेधो भविष्यति । इग्लक्षणस्य स प्रतिषः धिलक्षणश्चायम् । अनादेरिति किम् ? मा निरशीत | मा निरटीत् । घेरिति किम ? अतक्षीत् । अरक्षीत् । इडादावित्येव । श्रधान्नीत् । इह कस्मान्न भवति । अचकामीदिति चकारेऽकारस्य । यस्य न व्यवधानं तत्याकारत्य विकल्पः । अत्र तु कासशब्देन १. प्रतिषु [ मनुसृत्यात्र निर्दिष्टानि । ] कोष्टकान्तर्गतानां सूत्राणां वृत्तिस्थुटिता। सूत्राणि तु जैनेन्द्रपञ्चाध्यायी For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy