SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० ४ सू० ६२-६८], महावृत्तिसहितम् ३२५ "जिणमोदीर्मिताम्" [१६] इति वा दोत्वे कृते द्वे रूपे शामिष्यते । शमिध्यते। नित्यत्वादलाघगस्य] चाधित्वा त्रिवदिट् । तस्यासिद्धत्वापिणखम्। अन्यत्र शमयिष्यते। जौ दृष्ट कार्य सामान्येनातिदिश्यते । तेन घानिष्यते । यायिष्यते । अध्यापिष्यते इत्यत्र हनिणिङ निवद्भावे वधादय यादेशाः लुङि विहिता न भवन्ति । दीडोऽचि किति युट् ॥४२॥ दीडोऽजादौ किति परतो युडागमो भवति । उपदिदीये । उपदिदीयाते। उपदिीयिरे। दीङ इति कानिर्देशोऽचीत्यस्योत्तरत्र सावकाशस्य तां कल्पयति । वचनाघटः सिद्धत्वात "एगिवाक्चादुङोऽसुधियः" [ ८] इति यणादेशो न भवति । अतीति किम् ? उपदीयते । कितीति किम् ? उपादानम् । “गागयोः" [५।२८१] इत्येप् । “मिमीञ्दीङ प्ये च" [४।३१४३] इत्यात्वम् । यकुबन्तादामा भवितव्यमित्यनुबन्धनिर्देशो विस्पष्टार्थः । पूर्वान्तकरणे उपदिदीयिध्वे इत्यत्र इणन्ताद्गोरुत्तरस्य ढत्वं प्रसज्येत । इटि चात्खम् ॥४॥४॥६३॥ इटि अजादौ च किति परत आकारान्तस्य गोः खं भवति । पपिथ । जग्लिथ । “वोपदेश"५१०८] इत्यादिनेट । पपतुः । पपुः। तस्थतुः । तस्थुः । गोदः । कम्बलदः । डितिप्रपा । संस्था। अचीत्येव । दासीय । ग्लायते । “रन्नभेटः" [१४८६] इतीटोऽकारादेशः। अग इत्येष । यान्ति | व्यत्यत्ते । इटीति यद्यविशेषणग्रहणं तदा गेऽप्यातः खेन भवितव्यम् । व्यत्यस्तोति । एतच्च अगाधिकारेण विरुद्धमिव लक्ष्यते ।। ईद्ये ॥४॥४॥६४॥ श्राकारान्तस्य गोरीकारादेशो भवति ये परतः । देयम् । धेयम् । ग्लेयम् । "गुकार्ये निवृत्ते पुनर्न तन्निमित्तम्" [प०] इति अनित्यमेतत् । “देयमृणे" [३।३।२२] इत्येपो निर्देशात् । यद्येप क्रियते दीत्वोच्चारणं किमर्थम् ? पीतम् । हीनम् । य इति “निरनुबन्धकग्रहणे न सानुबन्धकस्य" [१०] । ग्लायते । म्लायते । भुमास्थागापाहाक्सां हलि ॥४॥४॥६५॥ कितीति वर्तते । भुमा स्था गा पा हाक् सा इत्येतेषामीकारादेशो भवति हलादौ किति परतः । भुसंज्ञानाम् । दीयते। देदीयते । धीयते । देधीयते । पीतं वत्सेन । मा इत्यविशेषेण ग्रहणम् । “गामादाग्रहणेष्वविशेषः" [१०] इति । मीयते । स्था-स्थीयते। तेष्ठीयते । गा इल्यविशेषेण ग्रहणम् । गीयते । जेगीयते । अध्यगीष्ट । “लुङ्लुङोर्वा" [१॥४।१२२] इति ईङो गादेशः । पा इत्यनुब्विकरणपिबतेर्ग्रहणम् । पीयते । पेपीयते । पातेस्तु पायते । पानम् । हाक-अवहीयते । अवजेहीयते । जिहीतैस्तु हायते । हातम् । सा-श्रवसीयते । अवसेषीयते । हलीति किम् ? ददतुः । ददुः । कितीत्येव । दाता । लिङ्येत् ॥४४॥६६॥ लिङि परतो भुमादीनामेकारादेशो भवति । देयात् । धेयात् । मेयात् । स्थेयात् । गेयात् । पेयात् । अवहेयात् । अवसेयात् । कितीत्येव । दासीष्ट । वाऽस्थः स्फादेः ॥४।४।६७॥ श्राकारान्तस्य स्फादेः स्थावर्जितस्य गोरेकारादेशो भवति वा लिङि परतः । ग्लेयात् | ग्लायात् । म्लेयात् । म्लायात् | अस्थ इति किम् ? स्थेयात् । अन्यथोभयप्राप्तौ परत्वादेतेन विकल्पः स्यात् । स्फादेरिति किम् ? यायात् । कितीत्येव । ग्लासीष्ट । गोरित्वेव । निर्यायात् । न प्ये ॥४४॥६॥ वेति नाधिकृतमुत्तरत्र वाग्रहणात् । प्ये परतो भुमादीनां यदुक्तं तन्न भवति । प्रदाय । प्रधाय । प्रमाय । प्रगाय । प्रस्थाय। प्रपाय। अवहाय । अवसाय । ईत्वप्रतिषेधोऽयम् । वचनात् "अन्तरङ्गानपि विधीन् बहिरङ्गः प्यादेशो बाधते" [१०] इति ज्ञापितम् । तेन "दो ददोः" [५/२११४८] इति दद्भावः । दधातेहि श्रादेशः । “हाकः क्वि" [५२।१४७] । मास्थास्यतीनामित्त्वं च न भवति । प्यादेशे कृतेऽनल्विधाविति स्थानिवद्भावाप्रतिपेधात्प्राप्तिः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy