________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ४ पा० ३ सू० १८४ - १८६ ]
महावृत्तिसहितम्
३११
नशब्दो निपात्यते । न पाति न वा न पाति नपात् । नपुंसकलिङ्गे शत्रन्ते पातौ पूर्ववन्निपातनम् । न वेत्ति न वा न वेत्ति नवेदाः । " अस् सर्वम्यः " [ उ० सू०] इति विदेरस् | "अत्वसोऽधोः " [ ४|४|१२] इति दीत्वम् । सत्सु सार्वा सत्या नसत्या असत्या | पुनर्नसे नासत्या । नमः प्रकृतिभावः । पुंस्यपीदं निपातनम् । नासत्या नाम केचित् । न मुञ्चति न वा न मुञ्चति मुचेरौणादिके इकि नमुचिः । नास्य कुलमस्ति न वानकुलमस्ति नकुलम् । नास्य खमस्ति न वा न खमस्ति नखः । न स्त्री न पुमान् नपुंसकः । स्त्रीपुंसयोर्नपुंसकभावो नञश्च प्रकृतिभावः । न क्षरति न क्षोयते इति वा नक्षत्रम् । क्षरतेः क्षीयतेर्वा क्षद्भावो नञश्च प्रकृतिभावः । न क्रीणाति न क्रामतीति वा नकः । क्रौञः क्रमेर्वा डत्यो नञश्च प्रकृतिभावः । अग कुटिलायां गतावित्यनयोः पचायचि कागौ भवतः । नाकः । नागः । नञः प्रकृतिभावः अथवा नास्मिन् कं दुःखमस्ति नाकः । न गच्छतीत्यगः । एतेषां रूढिशब्दानां यथा कथञ्चिद् व्युत्पत्तिः ।
एकान्नः || ४|३|१८४|| एकान्न इति निपात्यते द्यो । एकेन न विंशतिः एकान्नविंशतिः । एकेन न त्रिंशत् । नत्रो विंशतिशब्देन " नञ् " [१|३|६८ ] इति सः । एकराब्दस्य भान्तस्य न विंशतिशब्देन "साधनं कृता बहुलम् " [११३३२६] इति बहुलवचनाद् भेति योगविभागात्पसे कृते एकशब्दस्यादुक् नत्रश्च प्रकृतिभावो निपात्यते । अदुकः पूर्वान्तकरणं "यरो ङो विभाषा " [५|४|१२५] इति विकल्पेन ङार्थम् । एकाद्नविंशतिः । एकाद्नत्रिंशत् ।
नगो वाऽजीवे || ४ | ३ | १८५ || नग इति वा निपात्यते जीवेऽर्थं । । नगा वृक्षाः । नगाः शालयः । नगाः पर्वताः । गा वृक्षाः । श्रगाः शालयः । श्रगाः पर्वताः । न गच्छन्तीति सुपि वाचि " गमेर्ड : " [२|२|४६ ] वाक्सः | अजीव इति किम् ? गो देवदत्तः शीतेन ।
सहस्य सः खौ || ४ | ३ | १८६ ॥ सहस्य स इत्ययमादेशो भवति खुविषये । द्याविति वर्तते । सहाश्वत्थेन वर्तते साश्वत्थम् । सपलाशम् । सशिंशपम् । वननामधेयम् । सरसा दूर्वा । " तेन" [१1३1०] " सहेति तुल्ययोगे" [११३६१] इति बसः । " वा नीचः " [४|३|१६०] इति विकल्पे प्राप्ते श्रयं विधिः । खाविति किम् ? सहयुवा । सहकृत्वा । सहयुद्धवान्। “राशि युधि कृञः " [ शराब२] "सहे" [राराद३] इति कंनिपू ।
ग्रन्थान्तेऽधिके ||४३|१८७ || ग्रन्थान्ते ग्रधिके च वर्तमानस्य सहस्य स इत्ययमादेशो भवति । ग्रन्थान्ते हसः । सकलं ज्यौतिषमधीते । समुहूर्तमधीते । कला कलावशेषः मुहूर्तच तत्सहचरितो ग्रन्थोऽपि तथोक्तः । कलामन्तं कृत्वा मुहूर्तमन्तं कृत्वा । साकल्यान्तोत्तौ हसः । “हेकाले ” [ ४।३।१८६ ] इति काले प्रतिपेधादनेन सादेशः । श्रधिके वसः । सह द्रोणेन वर्तते सद्रोणा खारी । समापः कार्षापणः । सकाकरणीको भाषः । " वा नीच: " [ ४|३|११०] इति विकल्पः प्राप्तः ।
द्वितीयेऽनुपाये || ४ | ३ | १८८ ॥ द्वितीयेऽनुपाख्यायमाने सहस्य स इत्ययमादेशो भवति । द्वयोः सहयुक्तयोर्न्यग्भूतो द्वितीयः । स एवाप्रत्यक्षोऽनुपाख्य उक्तः । साग्निः कपोतः । समूसलः व्रीहिकंसः । सपिशाचा वात्या । सराक्षसीका शाला । श्रग्न्यादयोऽप्रत्यक्षेणानुपलभ्यमानाः कपोतादिभिरनुमीयमानत्वादनुपाख्याः । अनुपाख्य इति किम् ? सच्छात्रः सहच्छात्र उपाध्यायः । उपाख्यायत इत्युपाख्यः । “युड्व्या बहुलम् ” [२|३|६४ ] इति बहुलवचनात् "आतो गौ” [२।१११०६ ] इति कर्मणि कः ।
हेऽकाले || ४|३|१८६ ॥ हसंज्ञके सहस्य स इत्ययमादेशो भवत्यकालवाचिनि द्यौ । सचकं देहि । सधुरं प्राज । युगपच्चके । युगपद्धरौ। “यौगपद्य” [ ३१३१५] इति हसः । "ऋक्पूरब्धूःपथोऽनन्ते” [४|२|७० ] इति धुरोऽकारः सान्तः । ग्रकाल इति किम १ सहपूर्वाह्नम् । सहापराहराम्। यौगपद्ये साकल्योक्तौ वा हसः |
For Private And Personal Use Only