SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१० जैनेन्द्र-व्याकरणम् [ श्र० ४ पा० ३ सू० १७६ - १८३ खित्यः || ४|३|१७६ ॥ विदन्ते यो अजन्तस्य प्रो भवत्यः । कालीमात्मानं मन्यते कालिम्भन्या । रोहिणिम्मन्या । "खश्चात्मनः " [ २२२|७१] इति खरा । खित्यनन्तरः प्रादेशभाग्नास्तीत्युक्तम् । श्ररिति प्रतिषेधाच्च खिदन्ते द्यौ पूर्वस्य प्रपरोऽपि " मुमचः " [ ४।३।१७७ ] इति प्रादेशेन बाध्यते । श्ररिति किम् ? दोषामन्यमहः । दिवामन्या रात्रिः । Acharya Shri Kailassagarsuri Gyanmandir मुमचः || ४ | ३ | १७७ || पूर्वस्य पदस्याजन्तस्य खिदन्ते द्यौ मुम् भवत्यः । प्रियंवदः । वशंवदः । कालिम्मन्या । हरिणिम्मन्या । " विध्वरुपोस्तुदः सखम्” [२|२| ३७ ] इति सखे कृते मुम् । विधुन्तुदः । श्ररुन्तुदः । " द्विषन्तपेरम्मद" [३८] इति निपातनाद् द्विषन्तपः । च इति किम् ? विद्वन्मन्यः । श्रमेोऽम्वत् ||४|३|१७८ ॥ श्रच इति वर्तते । श्रजन्तस्य पूर्वपदस्यैकाचोऽम् भवति खिदन्ते द्यौ श्रमवास्मिन् कार्य ं भवति । श्रात्वपूर्वस्यैचि युवादिप्रयोजनम् । अवर्णान्तस्यामि नास्ति विशेषः । श्रनवर्णान्तमुदाहरणम् । गाम्मन्यः । स्त्रीम्मन्यः । स्त्रियम्मन्यः । नृशब्दस्य नरम्मन्यः । श्रियम्मन्यः । ध्रुवम्मन्यः । नावमात्मानं मन्यते नावम्मन्यः । प्रादेशमुमोरयमपवादः । एकाच इति किम् ? लेखाकं मन्यः । इत्येव द्विमन्यः । निपातनाद् वाचंयमपुरन्दरौ । श्रमित्यागमलिङ्गादपरोऽपि मकारः प्रयोगश्रवणार्थः स्फान्तखेन निर्दिष्टः । कथम्भवितव्यम्, श्रियमात्मानं कुलं मन्यते इति ? उच्यते - श्रीशब्द श्राविष्टलिङ्गः स्त्रियामेव वर्तत इति श्रियम्मन्यमिति भवितव्यम् । अन्ये मन्यन्ते स्वलिङ्गान्तरेऽपि वृत्तिदृष्टा । यथा प्रष्ठादिशब्दानां पुंयोगात् स्त्रियां वृत्तिः । प्रष्ठी । प्रचरी । गणकी। एवं श्रीशब्दस्य कुले वर्तमानस्य नपुंसकलिङ्गत्वं "प्रो नपि" [91१1७ ] इति प्रादेश: । श्रम्वदतिदेशात् “नपः स्वमा: " [ ५/११२० ] इत्युपू | "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् " [ प ० ] इति “सुपो धुमृदोः " [ १।४।१४२ ] इत्यस्यैवोपोऽमागमो बाघको नोत्तरस्य तेन श्रिमन्यमिति भवितव्यम् । एतच्च नातिश्लिष्टम् । वेदः प्रमाणमित्यादौ लिङ्गान्तरं प्रसज्येत । सत्यागदास्तोः कारे ||४३|१७६ ॥ सत्य अगद, अस्तु इत्येतेषां कारे द्यौ मुमागमो भवति । सत्यङ्कारः । श्रगदङ्कारः । ऋणि वनि वा काररूपम् । अस्तुराब्दो निसंज्ञकोऽभ्युपगमे वर्तते । स्त्वित्यस्य करणम् अस्तुङ्कारः रात्रेः कृति प्रभाचन्द्रस्य ||४|३|१८०|| रात्रिशब्दस्य कृति द्यो मुमागमो भवति प्रभाचन्द्रस्याचार्यस्य मतेन । रात्रिञ्चरः । रात्रिचरः । रात्रिमाटः । रात्र्याः । ग्रहणसामर्थ्यादयमप्राप्ते विकल्पः । खिति पूर्वनिर्णयेन नित्य मुमागमः । रात्रिंमन्यमहः । रात्रेरनन्तरः कृन्नास्तीति कृदन्तग्रहणम् । ननु रात्रिरिवाचरतीति " आधारे सर्वस्म्रुद्भ्यः क्विपू” [२११३६ वा०] इति तदन्तात्कृत्क्विस्ति । यदि तदर्थं कृद्ग्रहणं स्यात् । रात्रेः किपीति निर्देशं कुर्यात् । क्वित्रन्तस्य तु रात्रिशब्दस्य अन्यस्मिन् कृदन्ते मुग्न स्यात् गौणत्वात् । नञोऽन् ||४|३|१८१ ॥ नमोऽनित्ययमादेशो भवति द्यो । न हिंसा अहिंसा "नन्" [१।३।६८ ] सुपा इति सः । अनेकाच्त्वात्सर्वादेशोऽन् । स्थानिवद्भावेन पदादेशः पदवद्भवति इति नखम् । एवम् क्रोधः । अस्तेयम् । सानुबन्धकनिर्देशः किमर्थः ? वामनपुत्रः पामनपुत्र इत्यत्र माभूत् । द्यावित्येव । न भुङ्क्ते । "नजोऽनुभात्रे क्षेपे मिङ्युपसंख्यानम्" [वा०] । श्रकरोषि त्वं जाल्म । पचसि त्वं जाल्म । अचि || ४|३|१८२ ॥ जादौ च द्यौ नञोऽन् भवति । अनन्तः । श्रनादिः । अनुपमो जिनः । पुनर्वचन नखनिवृत्त्यर्थम् | "दोऽनन्ने” [ २२२२६० ] इति ज्ञापकान्नञो नो ङमु न भवति । नवारनपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकनागाः ||४|३|१८३॥ नाट्नपात् नवेदा नासत्या नमुचि नकुल नख नपुंसक नक्षत्र नक नाक नाग इत्येते शब्दा निपात्यन्ते । न भ्राजते न वा न भ्राजते किन्तु भ्राजत एवेति नभ्राट् । भ्राजतौ क्व्यन्ते द्यौ नञः प्रकृतिभावः । द्वयोर्वा नञोः एको For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy