SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [प्र.४ पा० २ सू०१४-५० जमिरकीर्तितोऽभवत् । अर्ककीर्तरभवत् । मेघप्रभो मेघेश्वरतोऽभवत् । गम्यमानपक्षापेक्षा ता । व्याश्रय इति किम् ? देवदत्तस्य हस्तः। रोगादपनये ॥४२॥५४॥ अपनयः चिकित्सेत्यर्थः। ताया इति वर्तते । रोगवाचिनस्तान्तात् वा तसिर्भवति अपनये गम्यमाने । प्रवाहिकायाः कुरु । प्रवाहिकातः अपनयमस्याः कुर्वित्यर्थः । अपनय इति किम् ? प्रवाहिकायाः करोति प्रकोपमित्यर्थः । कृम्वस्तियोगेऽतत्सत्त्वसम्पत्तरि च्विः ॥४॥५५॥ वेतीहानुवर्तते । न सः असः कारणमित्यर्थः । अतस्य तत्त्वम् विकाररूपापत्तिः श्रतत्तत्त्वम् । सम्पद्यते इति सम्पत्ता सम्पद्यतेः कर्तेत्यर्थः । श्रतत्तत्त्वे गम्यमाने सम्पद्यतेः कर्तरि वर्तमानात् सुबन्तात् उत्तरावस्थाभिधायिनश्चिर्भवति कृवस्तिभियोंगे। अल्पान्तरार्थेन शब्देन विग्रहः क्रियते । अशुक्लं शुक्लं करोति शुक्लीकरोति प्रासादम् । अत्र करोतेः कर्मभावमापन्नोऽपि प्रासादः सम्पद्यतेः कर्ता भवति अत एवं विग्रहः । अशुक्लः शुक्लः सम्पद्यते तं करोति शुक्लीकरोति । शुक्लीभवति । शक्तीस्यात् । शुक्लशब्दाच्च्विः । इकारः "वौ" [२/१३५] इति विशेषणार्थः। चकारोऽपि तत्रैव विशेषणार्थः । तत्र विरित्युच्यमाने दर्विः,बागृविरित्यत्र "रीङ ऋत:" [५।२।१३६] इति रीङ्भावः प्राप्नोति । वकारः "विडाजूर्यादिः" [१२।१३२] इति विशेषणार्थः । तत्र हि विग्रहणेऽक्रियमाणे चिनोतेस्तद्विकाराणां वा ग्रहणं प्रसज्येत । पूर्वस्य सुपः "सुपो धुमृदोः" [१॥४११४२] इत्युप् । "अस्य च्वौ" [५।२।१४१] इतीत्वम् । परस्य सुपः "सुपो मेः" [४|११०] इत्युप् । कर्मभावाभिधायिन्यपि कृत्रादौ चिर्भवति । शुक्लीक्रियते। अशुक्लस्य शुक्लस्य क्रिया शुक्लीभवनमिति द्रव्यस्य गुणक्रियाद्रव्यसमूह विकारयोगेऽतत्तत्त्वमुदाहार्य क्रियायोगे-कारकीभवति । कारकीकरोति । कारकीस्यात् । द्रव्ययोगे-दण्डीकरोति । दण्डीभवति । दण्डीस्यात् । “दीरकृद्गे' [श२।१३४] "च्चौ" [१२।१३५] इति दीलम् | समूहे-गा असङ्घ सङ्घ करोति सङ्घीकरोति । सङ्घीभवन्ति गावः । सङ्घीस्युः। विकारे-पटीकरोति तन्तून् । पटीभवन्ति । पटीस्युः । घटीकरोति मृदः । घटीस्यात् । अत्रायमर्थः । यत्र कारणाद्विकारस्याभेदो विवक्ष्यते तत्रायं च्विः । न तु यत्र कारणाकार्यस्य भेदः। यथा वीरणभ्यः कटं करोति । मृदो घटं करोति । कृम्वस्तियोगे इति किम् ? अशुक्लः शुक्लो जायते । अतत्तत्त्वे इति किम् ? शुक्लं करोति । घटं करोति । अत्र विकारस्यैव विवक्षा कारणस्याविवक्षितत्वा सम्पत्तग्रहणं किम् ? कर्तुरन्यस्मिन् कारके मा भूत् । अशुक्ले सत् शुक्ले सम्पद्यते । अदेवगृहे सत् देवगृहे सम्पद्यते । कथं समोपीभवति । दूरीभवति । अत्राप्युपचारात् । तस्थे द्रव्ये वर्तमानस्य कर्तृलम् । मनोरुश्चक्षुश्चेतोरहोरजसः खम् ॥४२॥५६॥ मनःप्रभृतीनां शब्दानामलोऽन्त्यस्य खं भवति च्वौ परतः। अविशेषेण पूर्वेणैव चिः सिद्धः । खमनेन विधीयते । न च खविधौ तदन्तविधिप्रतिषेधः । स-त्यविधौ तदन्तविधिप्रतिषेधात् । तदन्तानां केवलानां चेह ग्रहणम् । अनुन्मनसम् उन्मनसं करोति उन्मनीकरोति । उन्मनीभवति । उन्मनीस्यात् । अरूकरोति । अरूभवति । श्ररूस्यात् । “दीरकृद्गे' [१।२।१३४] "चौ" [५।२११३५] इति दीखम् । उच्चतूकरोति । उच्चतूभवति । उच्चतूस्यात् । विचेतीकरोति । विचेतीभवति । विचेतीस्यात् । विरहीकरोति । विरहीभवति । विरहीस्यात् । विरजीकरोति । विरजीमवति । विरजीस्यात् । साद्वा कात्स्न्य ॥४१२।५७॥ कृभ्वस्तियोगेऽतत्तत्त्वे सम्पत्तरीति वर्तते । अवत्तत्त्वविषये कास्न्य गम्यमाने सादित्ययं त्यो भवति वा । अनग्निम् कृत्स्नमस्त्रम् अग्निकरोति अग्निसातकरोति । अग्निसाद्भवति । अग्निसात्स्यात् । उदकसात्करोति । उदकसाद्भवति । उदकसात्स्यात् । वावचनाविरपि समुच्चीयते । अग्नीकरोति । उदकीकरोति । कात्स्यादन्यत्र विरेव भवति । सम्पदा चाभिविधौ ॥४॥२२५८॥ नानाद्रव्याणां सर्वात्मना एकदेशेन वा विकाररूपापत्तिरभिविधिः। एकद्रव्यस्य सर्वात्मना विकाररूपापत्तिः कात्यमिति भेदः। अभिषिधौ गम्यमाने विविषये साद्भवति सम्पदा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy