________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० १ सू० १८-५३ ]
महावृतिसहितम्
२७३
बहुभ्य श्रागतः । बहुश आगतः । भूरिश आगतः । बहुभ्यो देहि । भूरिशो देहि । बहुभिर्लुनाति । बहुशो लुनाति । भूरिशो लुनाति । बहुषु वसति । बहुशो वसति । भूरिशो वसति । बहून् देहि । बहुशो देहि । भूरिशो देहि । बहुभिर्भुक्तम् । बहुशो भुक्तम् । भूरिशो भुङ्क्ते । अल्पेभ्य श्रागतः । श्रल्पश श्रागतः । स्तोकश श्रागतः । इत्येवमादि ज्ञेयम् । बह्वल्पार्थादिति किम् ? ग्रामादागच्छति । कारकादिति किम् ? बहुभिः सह भुङ्क्ते । वाग्रहणेऽनुवर्तमाने पुनर्वाग्रहणं पूर्वस्य विधेर्नित्यार्थम् । प्रशंस इति वर्तते तदिह बह्वल्पार्थान्मङ्गले गम्यमाने शस् भवतीत्यर्थः । बहुशो ददाति श्राभ्युदयिकेषु कर्मसु । अल्पशो ददाति श्रनिष्टेषु कर्मसु ।
संख्यैकाद्वीप्सायाम् ||४||४८ ॥ कारकादिति वर्तते । संख्यावाचिनः एकान्ताच्च कारकाद्वीप्सायां वर्तमानाद्वा शस् भवति । वीप्साद्विस्यापवादः । अथवा शसैवोक्तत्वाद् द्वित्व निवर्तते । एकशो देहि । वाक्यपदे वीप्सायां द्वित्वम् | "एको बवत्" [५।३।७] इति वद्भावात् "सुपो धुमृदो: " [१|४|१४२ ] इति सुप उपि कृते समुदायादम् । एकैकं देहि । द्वौ द्वौ देहि द्विशो देहि । त्रिशो देहि । एकान्तात् । माषं माषं देहि माषशो देहि । कार्षापणशो देहि । प्रस्थशो देहि । संख्यैकादिति किम् ? माषो माषौ देहि । वीप्सायामिति किम् ? द्वौ ददाति । माघं ददाति । कारकादित्येव । द्वाभ्यां द्वाभ्यां सह भुङ्क्ते । प्रस्थस्य प्रस्थस्य स्वामी । कथमेकैकशो मन्त्रिणः पृच्छेदिति ? चिन्त्यमेतत् । यथा वा स्त्रीत्यान्तात् स्वार्थिके उत्पन्ने पुनः स्त्रीत्यः कुमारीतरेति । एवं द्वित्वे कृते पुनः शस् ।
प्रतियोगे कायास्तसिः || ४ |२| ४९ ॥ वेति वर्तत । यतः प्रतिदाप्रतिनिधी प्रतिना" [ १|४| २२ ] इति प्रतिना योगे का विहिता । तदन्तात्तसिर्भवति वा । इकारः "कायास्वस्” [४।१।७३ ] " तसे:" [४|१|७४] इति विशेषणार्थः । श्रभयकुमारः श्रेणिकतः प्रति। श्रेणिकात् प्रति । प्रद्योतनो वृत्तिषेणतः प्रति । वृतिषेणात् प्रति । "तसिप्रकरणे आद्यादिभ्य उपसंख्यानम्” [ वा० ] | श्रादौ । श्रादितः । मध्यतः । अन्ततः । पृष्ठतः । श्राकृतिगणोऽयम् ।
अपादाने होरुहोः ||४| २|५० || "काऽपादाने " [१|४ | ३७ ] इति अपादाने का विहिता । तदन्तात्तसिर्वा भवति हीयरुहसंबन्धि न चेदपादानम् । स्रुघ्नादागतः । स्रुघ्न श्रागतः । चौरेभ्यो बिभेति चौरतो बिभेति । श्रपादान इति किम् ? अन्यो देवदत्तात् । श्रहीयरहोरिति किम् । सार्थाद्धीनः । कर्मण्ययं क्तः । पर्वतादवरोद्दति । हीय इति जहातेः कर्मणि यक् तस्यानुकरणम् । किमर्थम् ? जिहीतेः प्रतिषेधो माभूत् । उदधेरुज्जिहीते । उदधित उज्जिहीते । "मन्त्रो वर्णतो हीनः" इत्यत्र श्राद्यादित्वात् भान्तात्तसिः ।
क्षेपाव्यथाऽतिग्रहेष्वकर्तृभायाः ||४ | २|५१|| क्षेप, अव्यथा, प्रतिग्रह, इत्येतेषु विषयभूतेषु या कर्तुरन्यत्र विहिता भा तदन्ताद्वा तसिर्भवति । क्षेपे-वृत्तेन क्षिप्तः वृत्ततः क्षिप्तो निन्दित इत्यर्थः । श्रव्यथायाम् - वृत्तेन न व्यथते वृत्ततो न व्यथते न चलतीत्यर्थः । श्रतिग्रहे वृत्तेनातिगृह्यते वृत्ततोऽतिगृह्यते । श्रतिमात्रं गृह्यत इत्यर्थः । सर्वत्र करणे हेतौ वा भा । क्षेपादिष्विति किम् । दात्रेण लुनाति । श्रकर्तृग्रहणं किम् ? देवदत्तेन क्षिप्तः । भाया इति किम् ? वृत्तमस्य क्षिप्यते ।
I
मानपायोगात् ||४ | २१५२ || कर्तृभाया इति वर्तते । हीयमानपापाभ्यां योगो यस्य तस्मादकर्तरि भान्ताद्वा तसिर्भवति । दीयमानयोगात् वृत्तेन हीयते । वृत्ततो हीयते । चारित्रेण हीयते । पापयोगात् वृत्तेन पापः । अत्रापि करणे हेतौ वा भा द्रष्टव्या । नन्वत्रापि क्षेपोऽस्तीति पूर्वेणैव तसिः सिद्धः । नैष दोषः । पूजाप्यत्र गम्यते । नीचवृत्ततो हीयते । पापवृत्ततो हीयते । यदि वा तत्त्वाख्यानमंत्र सूत्रे विवक्षितम् न निन्दा । श्रकर्तरीत्येव । देवदत्तेन हीयते ।
वाया व्याये ||४/२/५३॥ नानापक्षाश्रयो व्याश्रयः । तान्ताद्वा तसिभवति व्याश्रये गम्यमाने ।
३५
For Private And Personal Use Only