SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६८ जैनेन्द्र व्याकरणम् [ अ० ४ पा० २ सू० ७-१३ अभिजिद्विदभृतोऽणो यम ||४|२|७|| शस्त्रजीविसङ्घादिति निवृत्तम् । अभिजित् विदभृत् इत्येता यामण्णन्ताभ्यां स्वार्थे यञ् भवति । "वृद्धाद् वृद्धवदिति वक्तव्यम्” [वा.] वृद्धापत्ये योऽ विहितः तदन्तादयं यञ् वृद्ध वच्च भवति । श्रभिजितोऽपत्यमण । श्रभिजितः । तदन्ताद्यञ श्रभिजित्यः । श्राभिजित्यौ । श्रभिजिताः । वैदभृत्यः । वैदभृत्यो । वैदभृताः । वृद्वादिति किम् ? अभिजिद् देवताऽस्य ग्राभिजितः । विदभृत इदं वैभृतम् । वृद्धवदिति किम् ? अभिजित्यस्यापत्यं युवाऽऽभिजित्यायनः । "यजिजो: " [ ३|१|१० ] इति फण् सिद्धः । Acharya Shri Kailassagarsuri Gyanmandir शिखाशालाशम्यूर्णाश्रियां मतोः ॥४२॥ शिखा, शाला, शमी, उर्णा, श्री, इत्येतेषां शब्दानां मतोर्योऽण् तदन्तात्स्वार्थे यञ् भवति । शिखावतोऽपत्यमित्यण । तदन्तादयं यञ् । शैखावत्यः । शैखावत्यौ । शैखावताः । शालावत्यः । शालावत्यौ । शालावताः । शामीवत्यः । शामीक्त्यौ । शामीवताः । श्रौर्णावत्यः । श्रीवत्यौ । श्रर्णावतः । श्रमत्यः । श्रमत्यौ । श्रमताः । वृद्वादित्येव शिखावत इदं शैखावतम् । “वृद्धवदिति वक्तव्यम्” [वा०] शैखावत्यायनः । नेदं वक्तव्यम् । श्रपत्यस्वार्थिकाः श्रापत्यग्रहणेन गृह्यन्त इत्येव सिद्धम् । ते द्रयः || ४|२|९|| ते ज्यादयो द्रिसंज्ञका भवन्ति । तथैवोदाहृतम् । ते ग्रहणम् श्रनुक्रान्तसंशिप्रतिपत्त्यर्थम् । संख्यायाः पादशतेभ्यो वीप्सादण्डत्यागे वुन् ||४|२| १०|| संख्यादेः पादशतान्तान्मृदः वीप्सात्यागेषु गम्यमानेषु वुन् भवति । तासन्निधानेऽन्त्यस्यालः खं च । "यस्य ङ छ” । [ ४।१।१३६ ] इति यदि खं क्रियते, तस्य परनिमित्तत्वात् "परेऽचः पूर्वविधौ ' (१|१|१७ ) इति स्थानिवद्भावात् " पादः पत्" [४|४|११६] इति पद्भावो न स्यात् । इदं पुनः खमनिमित्तमिति न स्थानिवद्भावः । द्वौ द्वौ पादौ भुङ्क्ते द्विपदिकां भुङ्क्ते । त्रिपदिकां भुङ्क्ते । हृदर्थे रसः । वुनैव वीप्सार्थस्य द्योतित्वात् वीप्सालक्षणं द्वित्वं निवर्तते । द्वे द्वे शते भुङ्क्ते द्विशतिकां भुङ्क्ते । त्रिशतिकां भुङ्क्ते । दराडे — द्वौ पादौ दण्डितः द्विपदिकां दण्डितः । त्रिपदिकां दण्डितः । त्यागे— द्वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति । त्रिपदिकां व्यवसृजति | त्रिशतिकां व्यवसृजति । वुन्नन्तं स्वभावतः स्त्रियां वर्तते । संख्याया इति किम् ? पादं पादं ददाति । पादशतेभ्य इति किम् ? द्वौ द्वौ प्रस्थौ ददाति । बहुत्वनिर्देशादन्यत्रापि भवति । द्वौ द्वौ मोदकौ ददाति द्विमोदकिकां ददाति । द्विहलिकां ददाति । बीप्सादिग्रहणं किम् ? द्वौ पादौ भुङ्क्ते । स्थूलादिभ्यः प्रकारोक्तौ कः ||४| २|११|| स्थूल इत्येवमादिभ्यः प्रकारोक्तौ गम्यमानायां को भवति । जातीयस्यापवादः । श्रत्रापि प्रकारवति त्यः स्थूला गुमाषेषु । स्थूलप्रकारः स्थूलकः । अणुकः । माषकः । इषुकः । श्रपरेषां व्याख्या । माषेष्वित्युपाधिः । स्थूलका माषाः । श्रणुका माषाः । स्थूलामाषेषु । कृष्णतिलेषु । पाद्यकालावदाताः सुरायाम् । गोमूत्र श्राच्छादने । समस्तव्यस्ते । यवब्रीहिषु । कुमारीपुत्र । कुमारी । श्वसुरः । पाठः कर्तव्यः । सुराया हौ । जीर्णशालिषु । पत्रमूले मणि इच्छु तिल । चञ्चवृहतोरप्यत्र क्कादनत्यन्ते ॥४|२|१२|| श्रनत्यन्तमकार्यम् । अनत्यन्ते वर्तमानात् क्वान्तान्मृदः को भवति । श्रत्यन्ते भिन्न भिन्नकम् । छिन्नकम् । अनत्यन्त इति किम् ? भिन्नम् । अत्र भेदनक्रियायाः कार्त्स्न्येन संबन्धः । न सामेः ||४|२| १३ ॥ सामिशब्दात्परं यक्क्तान्तं तस्मात् को न भवति । सामिकृतम् । सामिभुक्तम् । सामिपर्यायाणामपि ग्रहणमिति केचित् । अर्धकृतम् । नेमकृतम् । ननु चात्र पदान्वरेणानत्यन्तगतेरभिहि For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy