________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० पा० २ ० २-६ ]
महावृत्तिसहितम्
२६७
बात फादस्त्रियाम् ||४|२|२|| नानाजातीया श्रनियतवृत्तय उत्सेधजीविनः संघाः व्राताः । ष्फ इति "वृद्ध े कुआदिभ्यो व्फा' [३।१३८७] इत्यापत्यस्त्यो गृह्यते । व्रातविशेषवाचिभ्यो उफान्तेभ्यश्च स्वार्थे यो भवत्यस्त्रियाम् । कापोतपाक्यः । कापोतपाक्यो । कपोतपाकाः । त्रैमित्यः । त्रैमित्यौ । व्रीहिमताः । फान्तात् कुञ्जस्यापत्यं यन् । कौञ्जायन्यौ । कुञ्जायनाः । ब्राघ्नायन्यः । ब्राध्नायन्यौ । बाध्नायनाः । स्त्रियामिति किम् ? कपोतपाका । व्रीहिमता । कौआयनी । "वृद्ध' च चरणैः सह" इति कान्तस्य जातिवाचि वाडी विधिः ।
1
• शस्त्र जीविसङ्घाञ्यड् वाहीकेष्वविप्रराजन्यात् ||४|२|३|| वाहीकेषु यः शस्त्रजीविसङ्घस्तद्वाचिनो मे विराजन्यवजितात् स्वार्थे त्र्यड् भवति । टित्करणं स्त्रियां ङयर्थम् | कौण्डीवृस्यः । कौडीवृस्यौ । कुडीसाः । क्षौद्रक्यः । दौद्रक्यौ । क्षुद्रकाः । मालव्यः । मालव्यो । मालवाः । कौराडीवृसी । क्षौद्रकी । मालवी स्त्री "हलो हृवो ङाम्” [४|४|१३८ ] इति यकारस्य खम् । शस्त्रजीविग्रहणं किम् ? मल्लाः । सङ्घग्रहणं किम् ? वागुरः । सम्राट् । वाहीकेष्विति किम् १ शबराः । पुलिन्दाः । विप्रराजन्यादिति किम् ? गोपालयः (ब्राह्मण: ) । शालङ्कायनाः राजन्याः । विप्रप्रतिषेधे विप्रविशेषप्रतिषेधः । नहि विप्रशब्दवाच्यो वाकेषु शस्त्रजीविनां सङ्घोऽस्ति । राजन्यप्रतिषेधे तु स्वरूप इति प्रतिषेधः । राजन्यविशेषस्यापि प्रतिषेधं केचि - दिच्छन्ति । कांवच्य | कांवच्यौ । कांवच्याः । ञ्यटि सति स्त्रियां ङी प्रसज्येत । शस्त्रजीविसङ्घादिति योगविभागादन्यत्रापि केचिदिच्छन्ति । शात्रर्यः । शाबय । शबराः । पौलिन्यः । पोलिन्द्यौ । पुलिन्दाः। योगविभागकृतमनित्यम् ? तेन शबर: पुलिन्द इत्यपि भवति ।
कारण || ४|२| ४ || शस्त्र जीविसङ्घवाचिनो वृकशब्दात् स्वार्थे टेण्यम् भवति । वार्केण्यः । वार्केण्यौ । वृकाः । स्त्रियां वार्केणी । “हलो हृतो ब्धाम्” [ ४|४|१४० ] इति यखम् । हल् उत्तरस्य यकारस्य खं भवति स चेद्यकारो गोरवयवभूत इति । बाहीकेषु ञ्यटि प्राप्ते, अन्यत्राप्राप्ते विधानम् । शस्त्रबीविसङ्घविशेषणं किम् ? मति ( जाति ) शब्दान्माभूत् ।
१
"कामक्रोधी मनुष्याणां खादितारौ वृकाविव । तस्मात्क्रोधं च कामं च परित्यक्तु बुधोऽईति ।। "
दामन्यादेछः ||४/२/५|| शस्त्रजीविषङ्घादिति वर्तते । दामनि इत्येवमादिभ्यः शस्त्रजीविषङ्घवाचि यश्छो भवति स्वार्थे । दामनोयः । दामनोयो । दामनयः । दार्मान । श्रलाप । वैजवापि । श्रदकि । श्राच्युतन्ति । शाकुन्तकि । सार्वसेनि । विन्दु । तुलभ । मोञ्जायन । सावित्रीपुत्र | त्रिगर्तषष्ठाः दामन्यादौ पठ्यन्ते शस्त्रजीविनां षड्वर्गाः । तत्र त्रिगर्तवर्गः षष्ठो येषां ते त्रिगर्तषष्ठाः । कोएडापरथीयः । कौएडापरथीयो । कोण्डोपरथाः । दाण्डकिः । क्रोष्टुकिः । जालमाली । ब्रह्मगुप्तः । जानकिः । उक्तं च
"ज्ञेयात्रिगर्तषष्ठाः षट् कौण्डो परथदाण्डकी । क्रोष्टुकिकमाली च ब्रह्मगुप्ठोऽथ जानकिः ॥ "
पर्खादेर ||४|२|६|| शस्त्रजीविसङ्घादिति वर्तते । पर्शु इत्येवमादिभ्यः शस्त्रजीविसङ्घवाचिभ्यो ऽय् भवति स्वार्थे | पाशवः | पाशवी । पर्शवः । पर्शु । रक्षस् । असुर । वाह्रीक । वयस् | वसु । मरुत् । सत्वत् । दशार्ह | पिशाच | शनि । कार्षापण । यौधेय । शोश्रेय । धार्तेय । ज्यावाणेय । त्रिगर्त । भरत । उशीनर । भर्गादिषु यौधेयादिभ्यः प्रतिषेधवचनं ज्ञापकम् श्रापत्यस्वार्थिकाः श्रापत्यग्रहणन गृह्यन्त इति । तेनास्याण उप् प्राप्तः प्रतिषेधार्थं वचनं तत्र सार्थम् । पर्वादिभ्यः पुनरुत्पन्नस्यायः स्वार्थिकस्य स्त्रीविवक्षायां "कुमत्यवन्तिकुरुभ्यः स्त्रियाम्" [ ३|१| १५७ ] इत्यधिकृत्य " अतोऽप्राच्यभर्गादिः " [ ३।३।१५८ ] इत्युप् । “कस्तः” [३।१।५६] इत्यूकारः । पर्श्वः । श्रसुरः (री) । रक्षः ।
For Private And Personal Use Only